________________
पञ्चमो लम्बः ।
सिकता, निरास्पदा वीरता ' इति मिथः प्रवर्तयति प्रणयोगारिणीं वाणीम्, सखेदायां च खेचरचक्रवर्तिदुहितरि दयितविमोक्षणाय क्षणादाविभावयन्त्यामन्तिके स्वविद्यां विद्याधरकुल क्रमागताम्, क्रमज्ञः स कुमारोऽपि मारयितुं पारयन्नप्यात्मपरिभवविधानलम्पटान्भटान् ' किमेभिर्निष्फलं निहतैः । नासीदति गुरुजनादिष्टः काष्ठाङ्गारवधसमयः' इति साहसाय संनह्य - ' मानमात्मानं निवार्य सुदर्शननाम्नो देवस्य सस्मार । स च कृतज्ञः कृतज्ञचरो देवस्तदा ध्यानानन्तरमन्तरिक्षपथमभिनवतमालकाननका लिममलिम्लुचैः कालमेघनिचयैः कवचयन्, नभस्तलस्त्यानमेदिनीपरागपूरदूरान्तरतदिवाकरेण समुन्मूलितोत्क्षिप्तवृक्षषण्ड संमीलिताकाशदिगवकाशेन चण्डाभिघातघूर्णमानगिरिशिखरविशीर्णगण्डशैलेने तस्ततस्तूललीलया नीतगृहपटलीपटलेनाभिपातताडनविह्वलितावनीतलविलुठदखिलजीवधनेन झञ्झासमीरेण समुत्सारितसकलारक्षकबलः, सहेलमादाय कुमारमन्तरिक्षे - क्षणादिव गत्वा गीर्वाणसद नसदृक्षमक्षय सुखसंगतं शृङ्गपरामृष्टचन्द्रं चन्द्रोदयं नाम निजशैलमशिश्रियत् । अकार्षीच्च तत्र हर्षोत्फुल्लमुखः शत1 -मखसद नातिशायि सौधाभ्यन्तरस्थापितभद्रासनमध्यमध्यासीनस्य जीवकस्वामिनः स्वभर्तृमुखपरिज्ञातकुमार महोपकारितात्यादरेदारैः सार्धं पयोवार्धिपयोभिरभिषेकम् । व्याहाच्चि - " कुमार, मां विश्वदूषणपात्रे भाष
गात्रे स्थितमेवं पवित्रीकृतवतस्ते 'पवित्रकुमारः' इति भवितव्यं नाम्ना " इति । एवं कृतज्ञानां धुरि कृतज्ञदीक्षेण यक्षेण कृतां पुरस्क्रियामनुभूय भूयसीं भूयस्तेन सममेकासनमध्यास्याप्सरसामतिपेलवं नाट्यमालोकयति कुमारे कुमारमारणाय प्रेरितः स चौरिकाध्यक्षोऽपि प्रतारणदक्षतया 'क्षपितजीवं जीवककुमारमकार्षम्' इति वचसा हर्षकाष्ठागतं काष्ठाङ्गारं विधाय तदीयं प्रसादमनासादितपूर्व लेभे ।
ततः सुनन्दासुतोऽपि सुदर्शनयक्षावरोधजनेन वर इव परया