SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ८४ गद्यचिन्तामण पञ्चमो लम्बः । अथ परिणयनानन्तरमन्तरायरहितविजृम्भणेन विषमशरेण समारोपितो रागशिखरं शिखरदशनया तया समं संसारसहकारपचेलिमफलायमानान्मन्दीकृतमहेन्द्रोपभोगमहिमाभोगान्भोगाननुभवितुमारभत कुमारः । तथाहि - नवपल्लवदलनिचयनिर्मितशयनेषु परिमलतरलमधुकरपटलपटावगुण्ठितपरिसरेषु गृहोद्यानलतागृहेषु लक्ष्यीभूतः कुसुमशरशराणां कमलदृशातया सह सुचिरमरमत । वारणपतिरिव वनसरसि करिणीसखः कंदर्प - विजयपताकया तया तन्नितम्बबिम्बाहतिजर्जरिततरङ्गमालासु तदात्वसंभ्रमदम्भःसंक्षोभितकमलसमुडीनरोलम्ब कदम्बकबलिताम्बराडम्बरासु क्रीडावापीषु चिरं चिक्रीड । अध्यास्य तनुमध्यया सह समन्तादास्तीर्णतूलशयनान्भवनमणिवलाभिनिवेशान्निशासु निशापतेर्निर्यदमृतनिः स्यन्दान्करकंदलान्प्रतीच्छन्निच्छाधिकं विनोदयामास विलोचनचकोरमिथुनम् । इत्थं गमयति कालं कलानिधौ कामतन्त्रपरतन्त्रे जीवकस्वामिनि भामिनी सखे सखेदः स गुणमालोपद्रवकरः करी तत्कुण्डलाहतिजातवैलक्ष्यः प्रक्षीणतनरतनुपरितापपरीतमना मनागपि मन्देतरयत्नेन यन्त्रा सानुनयं साधिक्षेपमर्प्यमाणमतीव स्वाद्विष्टमपि नाददे कबलम् । निःश्वासदीर्घमुष्णं च पुष्करलिखितमहीतलः केवलं पाकलाशङ्किभिरङ्गीकृतविविधभैषज्यैर्भिषक्त मैस्तथा चिकित्स्यमानो न तादृशीं दशां क्षणमप्यत्या क्षीत् ।
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy