________________
१२४
गद्यचिन्तामण
नवमो लम्बः ।
अथाभिनवपरिणयनपरिणतव्यलीकयवनिकान्तर्हितमनोभवरसानुभवकुतूहलया प्रियतमबलात्कारनीयमानपरिष्वङ्गपरिचुम्बनाभिमुख्यया प्रतिपादितरागहस्त पल्लवेन पञ्चशरेण शनैः शनैः सुरतसुखानुभवनसरणिमवतार्यमाणया विलासकलहंसनिवासजङ्गमकमलिन्या कान्तिकिसलयितकायलतार्पितभुवननयननिर्माणफलया विमलया सह वर्धमान रोमाञ्चमञ्जरीकल्प्यमानसुरतदेवताराधनसुमनोदामकानि मौग्ध्यविधीयमानलज्जापरिहियमाणाङ्गतरङ्गितप्रियतमरागविलसितानि विच्छिन्न विशीर्णशेखरमाल्यकेसरपरागधूसरपर्यङ्काणि परस्परपरिरम्भचुम्बनपौनरुक्त्यनिरक्षर निवेद्यमानोभयाभिलाषविशिष्टानि सुरतचेष्टितान्यनुभूय रतिपरिश्रमपारवश्येन शयनतलप्रसारिताङ्गीं विलुलितविरल विशेषकलेशपेशलललाटरेखामसकृदारचितभूषणारुणमन्थरपरिस्पन्दसुन्दरनयनेन्दीवरामनन्तरितताम्बूलरागारु
णिमवर्णितानवरतग्रहणदशनच्छदामतुच्छेन प्रणयेन निजगमनमसहमा नाम्,‘अलमलमविस्रम्भेण रम्भोरु, पुनरनागमनविषयेण । अनुक्षणमागमिध्यामि' इत्याभाषमाण एव भवनान्निर्गत्यानुनगरमविरलवकुलकदम्बचम्पकसहकारप्राये पुष्पोद्याने समासीनानामारभ्य शैशवादारचितपरिचयापयातपरस्पररहस्यानां वयस्यानामाजगाम समीपम् ।
ततश्च तमासक्तवल्लभाचरणलाक्षारसलोहितालकपल्लवोपरिभागमुपभोग|यासनिमग्नतारकदृशं गाढग्रहण लग्नदशनशिखरप्रणिहिताधरमणिमतिसुरभिपरिमलाङ्गरागव्यतिकरविशेषकमनीयवपुषं विषमेषुराज्यधर्ममिव