________________
नवमो लम्बः ।
१२५
विधृतविग्रहं प्रेमविवशविस्मृतनिमेषनिश्चलपक्ष्मपुटाभ्यां स्फुटितकमलमुकुलपेशलाभ्यां लोचनाभ्यामापादचूडमालोक्य 'अहो महाभाग्यस्य ते सौभाग्यं सर्वभुवनातिशायि , यदेवमनुपुरं पुरंध्रीभिः स्वयं त्रियसे । संप्रति समूढायाः प्रौढभाग्याया भजन्त्यभिख्यां कानि कान्यक्षराणि' इत्यक्षतसौहृदवानः पद्ममुखादयः पर्यपृच्छन् । सात्यंधरिरपि संजातसंतोषः किंचिदुन्मिषितहसितचन्द्रिकाच्छलेन सिञ्चन्निव स्नेहामृतम् ‘अधरितकमला सा विमला नाम्ना' इति व्याहार्षीत् । हर्षविकसदास्यानां वयस्यानां गोष्टीमधितिष्ठन्परिहासालापविदग्धबुद्धिर्बुद्धिषेणो नाम सुहृत् 'अस्य कुतः सौभाग्यम् । दौर्भाग्यादपरैरनूढाः प्रौढवयसः काश्चिदनन्यगतयः कन्यका निकाममेनं कामयन्ताम् । यदि नामायमेकान्तपरिहृतपुरुषदर्शनां दर्शनीयाङ्गयष्टिमधिवसन्ती कन्यान्तःपुरमनङ्गमातङ्गनहनदक्षकटाक्षहीरञ्जीरां सुरमञ्जरीमावर्जयेदअसा योग्यः सौभाग्यवतामुपरि गणयितुम् ' इति सोप्रासं प्रावोचत । तद्वचनानन्तरं सात्यंधरिरपि समुद्भूतमन्दहासः ‘साधु कथितं दास्याः पत्या वयस्येन । न चेदल्पीयसानेहसा समावर्जयेम तां वर्जिता एव वयमपि त्वमिव सौभाग्येन' इति ससंगरं व्याहरन्नेव पुनरपि पुरमाशु प्राविशत् । अविशञ्चास्य हृदयं वितर्कः 'केनोपायेन तां तथा करिष्यामि यथा मनसि मन्मथशरपातेन पारवश्यमासादयन्ती समासादयेदस्मान्' इति ।
ततश्च विभाव्य क्षणादेव यक्षोपदिष्टमनुमहिम्ना निजसौकुमार्यनित्राविकचकाशकुसुमस्तबकपरिभावुकेन पलितपाण्डरेण केशकलापेन पटेनेव सितेनावगुण्ठितोत्तमाङ्गम् , जराजलधितरङ्गानुकारिणीभिरायामिनीभिर्वलीभिः स्थपुटितललाटफलकम् , अलिकतटस्फुरदलघुवलिभारनुन्नाभ्यामिव नम्राभ्यां भूलताम्यां तिरोधीयमाननयनम् , उन्मिषितदूषिकाभ्यामुद्भूतनीलपीतपाटलसिराजालजटिलाभ्यामनुपलक्ष्यमाणपक्ष्मरोमरा