________________
१२६
गद्यचिन्तामणौ
जिभ्यां हिमानीहतपुण्डरीकविच्छायाभ्यामीक्षणाभ्यामुपलक्ष्यमाणम् , आनाभिलम्बितेन जरावल्लीफुल्मञ्जरीनिभेन कूर्चकलापेन प्रच्छादितवक्षसम् , अक्षीणकासकाष्ठाकरेंजपेन घर्घराघोषेण मुखरितकण्ठमूलम् , अतिनम्रपूर्वकायकथ्यमानदौर्बल्यम् , उल्लसदविरलास्थिपटलस्थपुटितसंस्थानम् , अस्थानपतनजनितजनहासविजृम्भणम् , एककरकलितकमण्डलुम् , इतरकरविधृतस्य वलक्षपटवेष्टितशिखरस्य शिखरनिहितहरितकुशापीडस्य वंशदण्डस्योपरि निवेश्यमानशरीरयष्टिम् , स्पष्टदृष्टकीकसान्तरालनिर्गतसिरासंतानसब्रह्मचारिणा ब्रह्मसूत्रेण सीमन्तितगात्रम् , अपगतमांसकृशाङ्गुलीपरिच्यवमानपवित्रिकाप्रत्यवस्थापनव्याप्रियमाणपाणिम् , प्रयाणोन्मुखप्राणमिव प्रेक्ष्यमाणम् , प्रेतनिर्विशेषवेषं दधौ । एवमात्मनोऽप्यत्याहितमापादयितुं समर्थया वार्धकावस्थया वर्धितकुतूहलैर्बालर्विहस्यमानः पदेपदे परिस्खलन्नवष्टभ्य मुष्टया वंशयष्टिमतिक्रम्य किंचिदन्तरं वामकरगृहीतवेत्राभिरितरकरगृहीतखगलताभिरापादमुक्तधवलकञ्चुकाभिः प्रतीहारस्थाननियुक्ताभिर्युवतीभिः समन्ता प्तं प्रत्युप्तनैकमणिमहःस्तबकपिञ्जरितगगनं सुरमञ्जरीभवनं यदृच्छयेवोपसृत्यातुच्छरुषा दौवारिकयोषित्सार्थेन 'किमर्थमिहोपस्थितम् । अवस्थीयतामत्रैव विप्र, त्वया । नैवान्तः प्रविश्यताम्' इत्यादिश्यमानोऽपि कुमारः कुमारीतीर्थस्नानेन वार्धकमेतदपसारयितुमुपसरामि' इत्युदीरयन्नवीर्य निवारणोपक्रममुपसर्तुमुपाक्रस्त तट्टहाभ्यन्तरम् ।
पुरंध्रयश्च प्रतीहारस्थानस्थितास्तदवस्थाविलोकनेन तद्वचनश्रवणेन च जातस्फीतहासानुकंपाः किं पातकमस्माभिरनुष्ठातुमारभ्यते । बुभुक्षितोऽयं क्षितिसुरः स्वैरं किमप्याचष्टे । स्पृष्टोऽप्यस्माभिरयं नष्टासुर्भवेत् । आस्तामयमत्रैव । प्रस्तुतमेतदुदन्तमिदंतया तस्यै भर्तृदारिकायै विज्ञापयाम' इति विरचितविचाराः सरभसमेव सुरमञ्जरीसकाशमविशन् । अ