SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ दशमो लम्बः । अथ कल्पितकरग्रहणाहपुरश्चरणकर्माणं कनकधरणीधरकटकपरिभाविनि परिसरघटितविमलमुक्ताफलपटलपाण्डुरमहःप्रसरपुनरभिहितोत्तरच्छदशोभिनि पराक्रमविद्याशिष्यैरिव पञ्चाननैः पादच्छलेन विधारिते निष्टप्ताष्टापदनिर्मिते महति सिंहासने समुपविष्टम् , पृष्ठभागोपस्थापिते क्षीरोदतरङ्गकोमलदूकूलनिचोलचारुणि चामीकरपत्रचित्रितस्तबरकदर्शनीयपर्यन्ते द्विगुणनिवेशिते स्पर्शसुखप्रतिपादनपटीयसि हंसतूलोपधाने निधाय पश्चिमदेहमासीनम् , आसन्नस्थिताभिरनुवल्गनरणितमणिपारिहार्यमुखरबाहुलताभिरनिलचलितकुवलयदलदामपेशलविलोचनविक्षेपाभिर्विभ्रमकृतनिभृतहसितनिर्यदमलदशनमरीचिकुसुमिताधरकिसलयाभिः कुसुमशरकीर्तिपयोराशिवीचीविमलनीवीविनिहितैककरपल्लवाभिः परेण करपङ्कजेन कलहंसामिव परिमललोभपतितमुच्चालयन्तीभिश्चामरं वाममयनाभिः कल्पशाखिनमिव कनकलताभिः परिवृतम् , उत्तप्ततपनीयदण्डविधारितेन सुमेरुशिखरविलसदुडुपतिमण्डलविडम्बकेन विमलातपत्रेण तिलकितोपरिभागम् , अनुपरिपाटि स्थितैराहितकरकमलकलितकनककिरीटैरसकृदभिधीयमानजयजीवशब्दैरंसतटलुठितमणिकुण्डलमरीचिपर्याकुललोचनैरभिनवगगनशङ्कासमुदिततारकानिकरानुकारिणा हारेण पुलकितपृथुलवक्षःस्थलैरवनिपतिभिरारादासेव्यमानम् , आहितरत्नकेयूरकिरणपाटलितेनाध्यक्षीभवदभङ्गुरप्रतापेन भुजयुगलेन चमत्कुर्वाणम् , शारदजलधरधवलाम्बरपरिवेषदर्शनीयं दुग्धजलधिजलपूरमधिशयानमिव शाङ्गिणम् , नभोङ्गणे तारागणैरिव तारापतिं धरापतिभिः संसदि विराजमानं राजानमुपसृत्य प्रश्रितः प्राञ्जलि: 'प्रत्यासन्नो मुहूर्तः' इति मौहूर्तिकाधिकृतः ससंभ्रममब्रवीत् । तद्वचनमुपश्रुत्य द्रुततरमुच्चलतामिलापतीनां रंहसा चलितवक्षोगतवैकक्ष्यमालाभ्रान्तभृङ्गावलीझंकाररवे मङ्गलशङ्खध्वनाविवोच्चलति, तरसा त्रुट्यत्सूत्रहारमुक्तानिकरे रोहदतिस्फारकरपद्मरागकुट्टिमपातेन
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy