SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्बः । होत्सवप्रीतिभाजनं जनोऽयमिति मेनिरे । बहुमेने च सा मानिनी मदनमहनीयरूपमेनमालोकयन्ती । अचिन्तयच्च 'यद्यसौ लभ्येत पतिः पराजय एव जयान्मे परं श्रेयः' इति श्रीदत्ततनया । अथ कुमारः समवतीर्य मातङ्गादनङ्ग इव लब्धाङ्गः कुरङ्गलोचनायाः पुरस्तादवस्थापितमनुरूपमासनमलंचकार । ततश्चकोरनेत्रायाः परिचारिकाभिः प्रदर्शिताः प्रत्येकं शास्त्रनेत्रनिरीक्षणादोषानु दोषयन्धोपवतीरदूषयत् । अभाषत च 'परिचारिकाः ‘परिवादिनी काचन परिहृतनिखिलदोषा भूषयति भवढूंशम् । आशु तामानयत' इति । तावता च तत्सदृशस्तद्विद्यायां न विद्यत इति जनितपरितोषया वीणावत्या वितीर्णा वीणामुपादाय वादायितुमुपचक्रमे चक्रवर्ती कलानाम् . 'जिनस्य लोकत्रयवन्दितस्य ___ प्रक्षालयेत्पादसरोजयुग्मम् । नखप्रभादिव्यसरित्प्रवाहैः ___ संसारपङ्कं मयि गाढलग्नम् ॥ इति । तेन च श्रवणसुभगगीतिगर्भमुद्भूतरागमनुगतग्रामं वादयता वल्लकी विजिग्ये विद्याधरराजतनया । __ अनन्तरमाविर्भवदभङ्गुरामर्षतरङ्गितहृदयेषु विजृम्भमाणव्यलीककल्पितकालिमकर्दमितमुखेषु ललाटरङ्गतटविहरदसितभ्रुकुटीनटेषु निबिडनिर्गच्छदतुच्छवेगोष्मलदीर्घनिःश्वाससमीरममरिताधरपल्लवेषु पश्यत्सु स्वयंवरास्थानवास्तव्येषु वसुधापालेषु सा गरुडवेगनन्दना सानन्देन सखीजनेन समुपनीता कुमारोपकण्ठं वर्धितोत्कण्ठा कण्ठे जीवककुमारस्य कुसुमशरविकारकम्पमानेन प्रहर्षपुलकजरितत्वचा पाणिपल्लवेन बबन्ध बन्धुरां स्वयंवरस्रजम् । अथ तामनवद्यतपोबलादावर्जितसुकृतानामन्तिकं श्रियमिव श्रय
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy