SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ जलधररवगाम्भीर्येण कुशलपरिप्रश्नादिचतुरोपचारगर्भेण मधुरतरेण स्वरेण ‘सांयात्रिकं संभाव्य समुचितकशिपुभिः समग्रमेनं संपाद्य पुनरानय' इति धरमब्रवीत् । अथ धरस्य सद्मनि वर इवायमूरव्यचूडामणिरुपलाल्यमानः क्षपामपि तत्रैव क्षपयित्वा प्रभात एव प्रसरन्त्यां गन्धर्वदत्तायाः क्षितितलप्रयाणवार्तायाम् , तन्मुखकान्तिजिते कांदिशीक इव मन्दतेजसि गते चन्द्रमसि , उडुगणेऽप्युडुपतिपराजयादिव तिरोदधति, पूर्वोदधिवेलां विकसितकमलमुखे चन्द्रमुखीमुखावलोकनरागादिव सरागे रवौ समासीदति, सीदति दुहितृविरहकातर्येण धारिणीहृदये , हृदयज्ञे च राज्ञि ‘राजीवलोचने , सुलोचनानां जननस्थानमुत्सृज्य सरितामिवान्यत्र सरणं किमु सांप्रतिकम् । अतो न सांप्रतमेवं तव वैक्लब्यम्' इत्युदीर्य हरति धारिणीमनःखेदम् , खेचरेन्द्रान्तिकममन्दादरादुपसरन्नुत्तमाङ्गचुम्बिताम्बुराशिरशनः सविनयं तस्थौ । तावता च जातास्था: 'कन्यकायाः प्रस्थानलग्नः प्रत्यासन्नः' इति मुहुर्मुहुरूचुर्मीहूर्तिकाः । ___अथ सत्वरपरिजनचरणसंघट्टनरणिते श्रवांसि बधिरयति , प्रतिदिशं समागच्छदतुच्छप्रयाणपरिच्छदे चढूंषि चरितार्थीकुर्वति , सर्वथाभवत्तरुणीविप्रयोगे विधुरयति प्रेमान्धबन्धुजनमनांसि, मांसलपटवासगन्धे घ्राणरन्ध्र नीरन्ध्रयति, समधिकधवलोष्णीषवारवाणधारिणा गृहीतकनककौक्षेयकवेत्रयष्टिना निष्ठुरहुंकारभयपलायितसत्त्वसार्थविभक्तपुरोभागेन प्रवयसा प्रतीहारलोकेनाधिष्ठिताग्रस्कन्धस्य बन्धुरभूषणमणिमहःप्रचयविद्युदुद्द्योतद्योतितवियतः स्फुटितमन्दारदामकामुकमधुकरनिकुरुम्बविलुलितालकस्य परस्परपरिहासकथाप्रसङ्गस्फुरितहसितकुसुमिताधररुचकस्य महतः स्त्रैणस्य मध्ये महीभृदाज्ञया समायान्ती , परिचयातिप्रसङ्गसंक्रान्तैर्विजयार्धशिखरिधातुरेणुभिरिव रञ्जितमलक्तकरसतानं तनुतररेखामयशुभलाञ्छनाञ्चितम
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy