________________
प्रथमो लम्बः ।
सरेण त्र्यम्बकललाटाम्बकनिर्यदनलदग्धं रतिपतिममृतेनेव सिञ्चतीभिर्गरुत्मदुपलताटङ्कतरलरश्मिपलाशपेशलमुखकमलाभिरयुग्मशरसमरनासीर - भटान्विवेकजलधिमथनमन्दरान्मन्थरमधुरपरिस्पन्दानिन्दविरकालिकानुकारिणः कटाक्षान्विक्षिपन्तीभिर्मदनमहाराजधवलातपत्रबन्धुचन्दनतिलक - भासमानभालरेखाभिराननविनिहितनवनलिनसंदेहनिपतदलिकुलर्नालकुन्तलाभिरनादरनहनशिथिलकबरभिरनिरवकाशितपश्चाद्भागांभिर्वारवामन
नाभिर्विराजिता, राजपुरी नाम राजधानी ।
यस्यां च परितोभासमानभगवदर्हदालयलङ्घनभयादपहाय वि- हायसागतिमधः संचरमाण इव भवनमणिकुट्टिमेषु प्रतिमानिभेन विभाव्यते भानुमाली । यस्यां च नीरन्ध्रकालागुरुधूपतिमिरितायां वासरेऽप्यभिसारमनोरथाः फलन्ति पक्ष्मलदृशाम् । यत्र च नितम्बिनीव - दन चन्द्रमण्डलेषु न निवसति कदाचिदभ्यर्णकर्णपाशजनितनहनशङ्क इव कलङ्करूपः कुरङ्गः । यस्याश्च सालः परिखासलिलसिक्तमूलतया कुसुमितमित्र वहति मिलदुडुनिकरमनोहरं शिखरम् । यस्याश्च प्रतापविनतपरनरपतिकरदीकृतकरिकरटनिर्यदविरलमदजलजम्बालिताः प्रविश
दनेकराजन्यजनितमिथः संघट्टविघटितहारनिपतितमुक्ताफलशकलवालुकापूरैराश्यानतामनीयन्तादृष्टशिखरगोपुरद्वारभुवः । या च शिखरकलि - तमुक्ताफलमरीचिवीचिच्छलादपहसतीत्र धर्मधनजननिवासजनितगर्वदुर्विनीतदशवदनचरितकलङ्काम् लङ्काम् । यस्यां च भक्तिपरवशभव्यजनवदनविगलदविरलस्तव नकलकलमांसलैः प्रतिक्षणप्रहतपटहपटुरवपरिरम्भमेदुरैः पूर्यमाणा संख्यातशङ्खघोषपरिष्वङ्गकरालैर्धारालकाहलकलरसितमांसलीभवदारम्भैर्जूम्भमाणजन कोलाहलपल्लवितैरुल्लसद्वीणावेणुरणि
तरमणीयैराटितढक्काझल्लरीझंकारकृताहंकारैरभङ्गरकरणबन्धबन्धुरलास्य - लासिविलासिनीमणिभूषणशिञ्जितमञ्जुलै : किसलयितभरतमार्गमनोहारिसं