________________
११६
गद्यचिन्तामणौ
नस्तदागमनप्रकारमाकारपिशुनितान्तर्गताह्लादः शनैरनुयुयुजे । नन्दाढ्योऽपि पूर्वजानुयोगसमुपगतपूर्वप्रकृताध्याननवीकृतमन्युभरः सदैन्यं साकूतं सादरं च वक्तुमुपाक्रमत-" पूज्यपाद , जगदुपप्लवकारिभवदुपप्लुतवार्तावात्यया निकामस्फूर्तिमदविषह्याभिषङ्गोऽपि कोपकृपीटयोनिकृताङ्गारसंकाशदृशि विस्फुलिङ्गविस्फूर्जदसदृशपरुषवचसि रचिता|रुकपरिधानभीकरवपुषि रोषदष्टोष्ठदर्शनमात्रत्रासितहस्तवति हेलोदस्तहेतिनिवहप्रणयिपाणौ रणाभिमुखीभवत्पद्ममुखप्रमुखवयस्यवर्गे , केनचिदतर्कितागतिना गगनं नीयमानं स्वामिनं निर्वर्ण्य पुनर्निर्त्य संयुगसंनाहमनिवर्तनीयविषादविषमयनीरधौ निमज्जति, जातु दुर्जयदुर्जातजातोऽहं किमिह देहभारं मुधा चिरमूद्वेति मन्युमौढ्येन मुमूर्षुभवन्भाविभवदीयदिव्यमुखाम्भोजदर्शनशंभरतया संभूतेन भूतभवद्भाविगोचरखेचराधिपसुताहृदयपरिज्ञानानन्तरमपहृतासुर्भवेयमिति विचारेण प्रतिषिद्धः प्रजावतीसदनमतिद्रुतमदुद्रुवम् । अपश्यं च तां परिवादिनीसंक्रमितेन भगवदर्हत्परमेश्वराभिष्टवेन कष्टां दशामापन्नमात्मानमुल्लाघयन्तीमुल्लोकवियोगरोगात्तगन्धां गन्धर्वदत्ताम् । साप्याकूतज्ञा मामादरकातर्यादात्मत्यागरागिणमवगच्छन्ती 'किमेवं कृच्छ्रायसे । स खलु सकलजगल्लालनीयाकृतिः सुकृतिनां पूर्वस्तव पूर्वजः केनापि लब्धपूर्वोपकारेण यक्षचरेण यक्षेन्द्रेण स्वमन्दिरं नीतः । तदनु नूतनजामातृतां प्रतिजनपदं प्रतिपद्यमानः सुखेनावतिष्ठते । ततः किमेवं साहसमनुतिष्ठसि । पापिष्ठेयं स्त्रीसृष्टिरिव त्वमपि किमपरत्र गन्तुं न पारयसि । यदि कौतुकाविष्टोऽसि तव ज्येष्ठपादस्य श्रीपादसंदर्शने शय्यतामिह शय्यायाम्' इति मामामन्त्र्य मन्त्रनियन्त्रितं किमपि पावनं शयनमधिशयानमेनं जनं तत्समय एव समीहितार्थगर्भपत्रेण सममत्र प्राहिणोत्" इति ।
तदनु च गगनेचरतनूजया प्रेषितं संदेशं हृषिततनूरुहकरपल्लवेन सायल्लकमादाय गन्धर्वदत्तादयितः सदयं साकूतं सावधानं च वा