________________
सप्तमो लम्बः ।
१०५
सप्तमो लम्बः ।
अथ तां पृथुनितम्बामयं प्रथमविवाह इव प्रथमानप्रीतिः परिणमपरिणमदनिवारणमदनमदवारणवर्धितधृतिरनवधृतरतिव्यतिकरविजृम्भितव्याक्षेपः क्षेमश्रीकान्तश्विरमेकान्ते कान्ततरकायकान्तिकान्दिशीककलाधराम् , रमणे चरणतले च रक्ताम् , प्रियसखीमण्डले जङ्घाकाण्डे च स्निग्धाम् , ऊरुस्तम्भे परिजने चानुकूलस्पर्शनाम् , सौभाग्ये श्रोणीबिम्बे च साभोगाम् , हृदयवृत्तौ रोमराजौ चात्यक्तकौटिल्याम् , मध्ये प्रणयकलहकोपतनूनपादि च तनुतराम् , सनाभौ नाभिमण्डले च भग्नाम् , चित्ते कुचयुगलेऽप्युन्नताम् , मनसि बाहुलतायां च मृद्वीम् , वचसि ग्रीवायां च मिताम् , वक्त्रे हृदि च सुवृत्तोद्भासिनीम् , सपत्नीनिचये कचभारे च कालिममयीं क्षमश्रियं पश्यन् , स्पृष्टदृष्टतदीयाखिलाङ्गतया हृष्टतमः ‘प्रिये, त्वामेवमनारतभोग्याममर्त्यभोग्याभिरप्सरोभिरुपमेयशोभां कथमुदीरयामि' इत्युपलालयन्नतिगृनुरिवालंबुद्धिमनासेदिवानवर्तिष्ट । एवमनिर्वृतिसुखया निवृतिसुतया सममतिमात्रनिर्वृतिमधिजग्मुषस्तस्य गन्धर्वदत्तापतेर्गत्वरतां ज्ञात्वा प्रियसखीव प्रतिषिद्धप्रयाणा प्रावृडाविरासीत् । तस्मिंश्चातिचकितकादम्बे कन्दलितकन्दले स्फुटितकुटजषण्डे ताण्डवतरलशिखण्डिनि स्फुरदाखण्डलकोदण्डे खण्डितमहीपालदण्डयात्रे त्रासि. तवातकिनि तटिदालोकनचकितवनौकसि प्रस्थितमानसौकसि तिरस्कृतदिनमणितेजसि स्फूर्जत्सर्जसौरभे भेकरटितवाचाले चलितबकपतिदन्तुरवियति वृत्रहगोपचित्रितधरित्रीपृष्ठे निष्ठुरघननिनदविनिद्रकेसरिणि मदमन्थरसिन्धुरे नखम्पचनितम्बिनीस्तनमण्डले प्रोषितप्राणखण्डिनि तरुगह्वर