SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ द्वितीयो लम्बः । ल्याणमयसप्तपुत्रिकाभिः साकम् ' इति गोसंख्यप्रकाण्डो डिण्डिमम् । ततस्तथाविधमेतमुदन्तमुपश्रुत्य ' शबरविजये कः शक्तः शस्त्रोपजीविषु । किमस्ति मस्तकमणिं फणिपतेरपहर्तुं समर्थो जनः । को नाम पञ्चजनः पञ्चाननस्य वदनादामिषमाप्तुमभिलषति । अस्ति चेदमुष्मिकर्मण्यलंकर्मीणः कामं लभेत कन्यामन्यच्च ' इत्यब्रुवन्भटब्रुवाः । ' हा कष्टम् । निकृष्टमिदं गार्हस्थ्यं कृत्यम् । तथाहि-दारियादपि धनार्जने तस्मादपि तद्रक्षणे ततोऽपि तत्परिक्षये परिक्लेशः सहस्रगुणः प्राणिनाम् । ततो हि सुधियः संसारमुपेक्षन्ते' इत्यनुप्रेक्षामातेनुरात्मविदः । पराजितराजन्यसैन्यं वन्यं जनमन्यः को भवेदभिभवितुम् । अभियुक्तो नास्तीति वा निर्णेतुं कथं पार्यते । विस्तीर्णेयमर्णवनेमिः । अस्तोकशक्तिरस्तु वा यः कश्चन हस्तवतामग्रेसरः । पाटितानेकभटां कारघटां हरिरेक एव किं न विघटयति ' इति विचारचतुरमाचचक्षिरे विचक्षणाः। जीवकस्वामी तु स्वामित्वेन वा भुवनस्य स्वभावत्वेन स्वकलत्रमिवामित्राधीनं गोधनं मेने । वितेने च संगरम् ' न चेदहमशरणानां शरण्योऽस्मि स्वामिद्रोहिणां धौरेयोऽस्मि' इति । आसीच्चास्य योगपद्येन श्रवास तदुदन्तश्रुतिर्मनसि रोषाग्निर्वचसि डिण्डिमनिरोधो ललाटे भ्रूकुटिश्चक्षुषोस्ताम्रता वपुषि स्वेदबिन्दुः सारथौ कटाक्षपातश्चरणयोः प्रयाणतूर्तिर्धनुषि निषङ्गेऽपि करयुगं चेति । प्रतस्थे च सात्यंधरिर्जात्यनुगुणगुणकण्ठोक्तराजकण्ठीरवभावः सदा संगतैरसंकटखेदिभिरवस्थावेदिभिरनारोपितवैयात्यैराफलोदयकृत्यैरतिदूरप्रेक्षिभिरपथोपेक्षिभिरखिलगुणसनाथैरात्मीयमनोरथैरिव वयस्यैरमा रथमारुह्य पल्लिमभि प्रतिमलजिगीषया । ततश्च तस्मिन्पवनेनेव पवनसखे सखिजनवृन्देन भूभृन्नन्दने विपिनेचरविपिनदिधक्षया तीक्ष्णतेजसि प्रस्थाय तरसा प्रयाति, भाविविजयविवरणचतु
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy