SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ७२ गद्यचिन्तामणौ दभ्रितमिव सिन्धुरैः कचित्तरङ्गितमिव तुरङ्गमैः क्वचित्पल्लवितमिव पद्मरागप्रभाप्रसरैः कचिच्छाद्वलितमिव महेन्द्रनीलमयूखलतावितानैः क्वचित्सिकतिलमिव मुक्ताफलराशिभिरुपरि शोभमानमधरितकुबेरभवनवैभवं बहुविधैश्वर्योत्कटं गन्धोत्कटसदनं समाससाद । ____ अथ गणरात्रापगमे गणकगणगणिते गुणवति वधूमनोरथकल्पशाखिनि वरहृदयानन्दपयोधिविजृम्भणचन्द्रोदये चारणचकोरजीवितवर्धनजीमूते कुसुमकेतुकलहंसकेलीकमलकानने कलगीतिकलकण्ठनिनदावतारवसन्ते संतोषसरसिजविकासदिवसारम्भे संनिहितवति परिणयनदिवसे प्रशस्ते च मुहूर्ते मौहूर्तिकानुमते जीवकस्वामी तदात्वपरिकल्पितं प्रयतमहीसुरहूयमानहुतवहं संनिहितसमिदाज्यलाजं स्थानस्थानस्थितबन्धुलोकमुल्लोकदीयमानताम्बूलकुसुमाङ्गरागमुद्भटताड्यमानमङ्गलपटहं वाद्यमानवादित्रवल्लकीवलगुरववाचालितं पूर्यमाणासंख्यशङ्खवेणुशब्दायमानदशदिशापरिसरं परिणयनमणिमण्डपमधिरुह्य पुरंदरदिशाभिमुखस्तिष्ठन्स्नातानुलिप्तः प्रत्यग्रविहिताभिषेकाम् , आपादमस्तकमारचितेन चन्द्रमरीचिगौरेण चन्दनाङ्गरागेण निजदुहितृशङ्कया दुग्धजलधिनेव परिष्वक्ताम् , आभरणमणिमयूखमालाच्छलेन रमणपरिरम्भणाय न पर्याप्तं भुजद्वयमिति बहूनिव बाहूनारचयन्तीम् , अवतंसकुसुमपरिमलचपलैरतिमधुरं कणद्भिरलिकुलैः ‘इह जगति जीवकाद्वरीयान्वरो न कश्चित्' इति कथ्यमानामिव कर्णजापैः, कंदर्पशरासनपतितां विशिखकुसुममालामिवैकावली स्तनकलशयोरन्तरे कलयन्तीम् , दुर्वहत्रपाभरेणेव किंचिदवनतमुखीम् , रणता रत्ननूपुरयुगलेन निखिलयुवतिदुर्लभं वल्लभमियमिव समासादयितुं चरत दुश्वरं तपः' इत्युपदिशतेवोपशोभिताम् , उपात्तमङ्गलवेषाभिरुन्मिषितभूषणप्रभाकुलितलोकलोचनाभिरवनिमवतीर्णाभिरभङ्गु - राभिरपराभिरिव विद्युद्भिर्विद्याधरवनिताभिरुपनीताम् , गृहीतार्यवेषेण श्री
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy