SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ षष्ठो लम्बः । त्रचारित्राश्रयं तापसाश्रममध्वश्रमपरिच्छेदाय शिश्रिये । अपश्यच्च तापसानामञ्चितवृत्तोऽयं पञ्चाग्निमध्यस्थानादितपःप्रपञ्चम् । अतर्कयच्चायं कृपालुः 'अहो देहिनां मोहनीयकर्मेदं दुर्मोचप्रसरं यद्वश्या अमी मुधा क्लिश्यन्ते' इति । व्याहरच्चायं परहितपरतन्त्रो मन्त्रायमाणं वचः “ अयि तपोधनाः, 'न हिंस्यात्सर्वभूतानि' इति विश्रुतां श्रुतिं विद्वांसोऽपि किं हिंसानिदाने तपस्येकताना भवन्ति" इति । अदीदृशच्च दुर्दशो जडाञ्जटाजालभ्रष्टजलावगाहनलग्नजलचरविसराणां विविधैधोविवरविसर्पत्सर्पादिजन्तूनामप्यमन्दविभावसौ दन्दह्यमानानां नयनवतामसह्यं व्यसनम् । अबूबुधच्च तत्त्वमयं लब्धवर्णो वर्णिनां मध्ये कतिचिदत्यासन्नभव्यान्दिव्यैः श्राव्यहृद्यैरनवद्यानेकान्तोद्योतिभिर्वचोभिः । उदस्विदपवर्गश्रियस्तेऽपि श्रीजिनधर्ममगृह्णन् । अथ तावता सद्धर्माभिमुखतापसहृदयोद्वान्ततमसेव श्यामीभवति दिङ्मुखे, श्यामामुखविधेयकृत्यं मुनिजनैः सममनुष्ठाय काष्ठाङ्गाररिपुः क्षपामपि तत्रैव क्षपयामास । तदनु च सन्मार्गसंदर्शनसावधानेन सवित्रा संगृहीतसम्यक्तबलबहिष्कृततापसमनस्तमोराशिपुनःसंपर्कभीत्येव निःशेषतमःस्तोमेऽपि निरस्ते, परिसरतरुसुप्तोत्थिते कुमारसौखसुतिक इव सविरावे सति वयसि, रुरुगणेऽप्युटजाङ्गणभुवमुत्सृज्य तृणचर्वणचापल्यादाश्रमोपशल्यमाश्रयति , शुचीतरविभागोपेक्षिणि सुगतमतावलम्बिनीवाम्बुजिनीरजःस्पर्शनलम्पटे वाति प्राभातिके मरुति, दिनपतिमुखावलोकनोद्दामदिवसश्रीराग इव प्रसरति तरुणातपे, तापसदारकसमितौ च समित्कुशपलाशहरणाय यथायथं विहरन्त्याम् , विहितप्रगेतनविधिस्ततो विनिर्गत्य सात्यंधरिरन्धकारितपरिसराणि कणदलिकदम्बकबलितशिखरकुसुमतुङ्गतरुसहस्राणि विशृङ्खलखेलत्कुरङ्गखुरपुटमुद्रितसिकतिलस्थलाभिरम्याणि स्वच्छसलिलसरःसमुद्भिन्नकुमुदकुवलयमनोज्ञानि विमलवनापगापुलिनपुञ्जितकलहंसरसितरञ्जितश्रवणानि दृप्यच्छाकरशृङ्गको
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy