________________
गद्यचिन्तामण
टिविघटन विषमिततुङ्गकच्छानि विचित्रसुमनः परिमलमांसलसमीरसंचारसुरभीकृतानि कानिचित्काननानि नयनयोरुपायनीचकार । तानि च क्रमादतिक्रम्य गच्छन्विक्रमशालिविविधपुरुषपरिषदः पारुष्यविरामाभिरामरामालंकृतस्यायत्नोपनतरत्नरजतजातरूपजातजातसमृद्ध डिण्डीरपिण्डपाण्डुपुण्डरीकोद्भासिनः सलिलान्दोलित चारुचमरवालमरुतः परदुरासदसत्त्वाधिकविविधभूभृदध्यासितसविधस्याजस्राभिवर्धितवाहिनी सहस्र संपादितसंपदः पयोधरभर मनोहर महिषी महितधाम्नः सदातनगोधनचकासिनः सकलजन्तुसंरक्षणदक्षस्य विडम्बितक्षोणीपतेर्दक्षिणदेशस्य मणिमकुट/यमानविकटशिखर चुलुकिताम्बरं जाम्बूनदोपपादितस्थूलस्थूण सहस्र संबाधमण्डि - तमण्डपमकाण्डभत्रदाखण्डलधनुः काण्डशङ्कानिष्पादनशौण्डनैकपुष्पोपहारमहरहरभिवर्धमानस पर्यमविलयं कमपि श्रीजिनालय मद्राक्षीत् । तन्निरीक्षणक्षण एव क्षीणनिः शेषश्रमः श्रावक श्रेष्ठोऽयं काष्ठागतप्रमोदः साधुधौतपादः पादपवल्लुरीतल्लजसंफुलफुलोत्करमरविन्द संदेहानुधावन्मधुकरेण करेणापचित्यापचितिविधिज्ञोऽयं विहिताञ्जलिरधिकभक्तिभक्तिभरनिगलविगलित इव कथंचिद्गलाद्गलति सकलवाङ्मयातिवर्तिकीर्तेर्भगवतः संस्तवे, संस्तवनौत्सुक्याङ्कुरानुकारिरोमाञ्च मुञ्चति शरीरे, शारदारविन्द इव मकरन्दबिन्दुभिरानन्दाश्रुजालैः प्लाविते लोचनयुगले, अचलितमूर्तिरतुलतूर्तिः कर्तव्यमपश्यन्नवश्येन्द्रियस्त्रिकरणशुद्धिस्त्रिः परीत्य क्षणमास्थितः श्रीपीठाग्रस्थितिरारचय्य कुसुमाञ्जलिमवजिनं जिनमस्तोकमस्तावीत् —
' तरन्ति संसारमहाम्बुराशिं यत्पादनावं प्रतिपद्य भव्याः । अखण्डमानन्दमखण्डितश्रीः श्रीवर्धमानः कुरुताज्जिनो नः ॥ विवेकिनो यस्य पदं भजन्ते विमुच्य बाह्यान्विषयानसारान् । अवाप्तुमात्मीयगुणं गुणाब्धिर्जिनेश्वरो नः श्रियमातनोतु ॥ यदीयपादामृतसेवनेन हरन्ति संसारगरं मुनीन्द्राः ।
१००