________________
एकादशो लम्बः ।
"
विवरितुम् । विशेषतश्च नराणां परिभवपराराधनवचनपारुष्यमननकालुष्यभुजिष्यभावेर्ष्यादारिद्र्यादिभिरुदेकितोऽयमुपद्रवप्रकारः प्रत्यक्षनरकायते । सुकृतोदयेन सुखायमानानां सुराणामपि परनिरपेक्षणक्षणक्षण निरपायेन निसर्गतः सिद्धेऽपि कर्मबन्धतया दुष्परिहारपरिभवजननी पराधीनवृत्तिर्मर्त्यप्रवृत्तेरप्यधिकतरमरुंतुदा । प्रत्युत मरणभीत्या पूर्वममृताहरणादिभिरनुभूतमखिलमपि सौख्यं क्षण एवं नारकदुःखायते । ततः सर्वथाप्यसारे संसारे मन्देतरभाव एव द्वन्द्वस्य न खलु सर्वथाप्यभावः । तत्रातर्कितमरणमपगतशरणमशुचिसदनमनल्पव्यसनमनेकविधापायमपि मानवकायमपवर्गोपायतया राजेन्द्र मनोरथेनापि दुर्लभं तोयधिमध्यमग्नमणिमिव लब्ध्वापि मोहविप्रलब्धाः केचन मुग्धा दग्धुकामा इव भस्मने मणि कामं कामसौख्यमात्रफलं कल्पयन्ति । पार्थिवेन्द्र, पदार्थयाथात्म्यदृशस्तु भवादृश: पुनरीदृशपारवश्यपराचीनाः परस्पराविरोधेन साधितत्रिवर्गाः स्वयमपवर्गमपि साधु साधयेयुरिति धर्मदेशनानन्तरं जन्मान्तरप्रबन्धमपि जननाथनिर्बन्धेन विनीतबन्धुर्विवत्रे । “भूभृतां पुरोग, पुरा खलु भवान्धातकीपण्डललामायमानभूमितिलकाधिपतेः पवनवेगनाम्नो धात्रीपतेर्यशोधर इति पुत्रो भूत्वा कदाचन भूरिपरिकरेण नगरबहिरुद्याने सरस्तीरे विहरमाणस्तत्र रमणीयमालोक्य जालपादशिशुं लीलार्थे वर्धयितुमेनं परिजनमुखतः पाणौकृत्य निवर्तयामास । वृत्तान्तमेतमुपश्रुत्य श्रुतशाली भवन्तमामन्त्र्य भवत्पिता ' पातककृत्यमिदं चतुष्पदां पततां च स्वपदाद्वियोजनम् । यो जनस्तथा चेष्टते स कष्टायते । आत्मज धर्मो हि नामात्मनोऽन्यस्य च हिते प्रवृत्तिरहितनिवृत्तिश्च । तथा सति जतूनां छेदनरोधनताडनतापनादीनि पापनिमित्तानि त्वया परिहर्तव्यानि भवेयुः । एवमात्मप्रतिकूलानामन्यजनेऽप्यनाचरणं चरणं गणयित्वा कारुणिकेन त्वया स्वहिंसने स्वाहितवचः कथने स्वद्रव्यापहरणे स्वस्त्रीग्रहणे
.
१६३