________________
प्रथमो लम्बः ।
लहविधूतबकोटपक्षपुटदर्शितस्थलपुण्डरीकविभ्रमेण कचिदिवाप्यन्धकारितपरिसराभिर्मरकतपरिघपरिभावुकरम्भापरिरम्भरमणीयाभिः प्रक्राडाचकोडविघटितकोहलपतितकेसरसंकटाभिः पूगवाटिकाभिः प्रकटीक्रियमाणाकाण्डप्रावृडारम्भेण सर्वकालमुर्वराप्रायतया प्रथमानबहुविधसस्यसारेण ग्रामोपशल्येन निःशल्यकुटुम्बिवर्गः, सलिलदेवतानाभिमण्डलसनाभिसंनिवेशैः स्फटिकविशदसलिलपूरितोदरैर्घनघटितसुधालेपधवलभित्तिपरिवेष्टितमुखतया हसद्भिरिव निरुपयोगसलिलभरभरितमपांनिधिमम्भःकुम्भोत्क्षेपपतितपयोबिन्दुरूढशाद्वलतृणश्यामलितानूपैः कूपैरुपेतपर्यन्ताभिरनतितुङ्गमञ्चिकाप्रतिष्ठितसलिलघटपरिपाटीविलोकनमषितपथिकजनपरिश्रमाभिर्जलाधिवासघृष्यमाणपाटलीशर्करापरिमलबहलिमविद्रावितनिदाघवैभवाभिरप्रविष्टतरणिकिरणशिशिरखलूरीपरिसरनिद्राणा - ध्वन्योदन्यादैत्यशमनचतुरप्रभावाभिः प्रपाभिः प्रतिहतधर्मविजृम्भितः, प्रत्यग्ररोहासिततृणकरीरकबलनमुदितैरवनितलविलुठितवालपल्टवैरप्रचलितबलवदुक्षदर्शनभयधावदध्वगैर्गतिरभसरणितमणिकिंङ्किणीरव - मुखरितभुवनविवरैः स्मरणपथविहरमाणतर्णकवमितदुग्धधाराधौतधरातलैः कठिनखुरपुटखननसमुत्पतदविरलपरागपटलच्छलेन गोशब्दसाम्यसमाविर्भूतस्नेहतया भूतधात्र्येव दीयमानानुयात्रैः स्वभावकुण्डलितशिखरभीषणविषाणव्याजेन दुष्टसत्त्वसमुत्सारणाय कार्मुकमिव कलयद्भिः प्रशस्तकर्मसाधनैोधनैः पवित्रीकृतसीमा, हेमाङ्गदनामा जनपदः । ___यश्च दौर्गत्यनिवासपरिजिहीर्षयेव निरवकाशयत्यात्मानमभितो घटितैर्धान्यकूटैः । यं च दिशिदिशि दृश्यमानजिनालयलाञ्छनपञ्चाननविलोकनचकिता इव नोपसर्पन्त्युपद्रवकरिणः । येन च विप्रकीर्णविविधमणिगणमरीचिमालिना जलनिधिविरहविषादः परिहियते पङ्कजासनायाः । यस्मै च स्पृहयन्ति निःस्पृहा अपि निर्वाणसुधानिःस्य