________________
aur
गद्यचिन्तामणौ
न्दचन्द्रमसो मुनयः । यस्माच्च सततजाज्वल्यमानजिनपूजाचरुपचनपावकादुपजातभीतिरिव दूरं पलायत कलिः । यत्र च संकल्पसमयावर्जितैर्दानजलप्रवाहैः प्रक्षालित इव प्रलयं प्राप किल्विषपङ्कः ।
तत्र चास्ति समस्तभुवनविख्यातसंपदाभोगा, भोगवतीव भुजङ्गचरितोद्वेगेन भित्त्वा भुवमुत्थिता, नमुचिमथननगरीव निरालम्बनतया नभःस्थलान्निपतिता, माधुर्यकुलभूमिः फलमञ्जरीव भारतवर्षभूरुहस्य, भुवनवलभीमण्डनमुक्तासरमरीचिनिचयकवचिता कर्णचामरिकेव हेमाङ्गदमतङ्गजस्य, मरकतमणिकुट्टिममयूखपत्रला पद्मसरसीव कमलाकलहंसीविहारस्य, पातालवासिभिरप्यनालोकितमूलेन गगनचरैरप्यलक्षितशिखरेण पराजितपरनरपतिकरदीकृतकनकोपलपटलघाटतेन विघटितकुलगिरितटाभिर्दिगन्तदन्तावलदशनकुलिशकोटिभिरप्यभेद्यसंस्थानेन स्तम्भितजगदुपरमसमयसमीरसंरम्भेण त्रिभुवनलक्ष्मीकनकपादकटककान्तितस्करेण प्राकारेण परिवृता, कलशभवकबलितजलनिधिजनितानुशयेन कुशेशयभुवा सावधानमनवधि सलिलमापादितेनेव फणभृदावासविश्रान्तगाम्भीर्येण स्नानावतरदवनीपतिमदवारणकपोलतलविगलितदानजलवेणिकाव्याजेन जलनिधिसमुत्कण्ठया यमुनयेव विगाह्यमानेन निजाभोगविस्मयनिपतितैरुपरिचरयुवतिनयनैरिव नीलकुवलयापीडैरकाण्डेऽपि निशां दर्शयता प्रतिफलितभवननिवहभरितजठरतया कुपितसुरपतिकरकल्पितकुलिशपतनभयमग्नमहामहीधरमुदधिमवधीरयता परिखाचक्रेण परिष्कृता, विकसदभिनवसुमनःपरागविसरधूसरितवासरालोकैः पतितपचेलिमफलरसपिच्छिलतलस्खलितपुष्पलावीजनैरनिभृतपरभृतकू - जितमुखरितसहकारैः प्रसवपरिमलतरलमधुकरनिकरान्धकारितैः पाकसुरभितपनसफलहेलाच्छोटनकुपितमर्कटीकोपशमनचतुरशाखामृगली - लाजनितकुतूहलैः पारावतपरस्परसंपरायपतितपुष्पस्तबकतारकिततरु -