________________
गद्यचिन्तामणौ
ध्वजस्य दुरतिक्रमतया च नियतेनिरन्तरनिपतदनङ्गशरशकलीकरणभयादिव पलायितविवेकः प्रकृतिनिष्ठुरे काष्ठाङ्गारे निजभुजादवतार्य राज्यभारं राजीवदृशा सह रन्तुमारभत ।
कदाचित्प्रहतमृदुमृदङ्गं रङ्गमधिवसन्विलासिनीनामतिचतुरकरणबन्धबन्धुरमनङ्गतन्त्रशिक्षाविचक्षणविटविदूषकपरिषदुपास्यं लास्यमवालोकिष्ट । कदाचिदनुगतवीणावेणुरणितरमणीयं रमणीनां गीतमाकर्णयन्कर्णपारणामकार्षीत् । कदाचिद्विकचकुसुमपरिमलतरलमधुकरकलरवमुखरिते लतामण्डपे विरचितनवकिसलयशयने कृशोदरीमरीरमत् । कदाचिद्वनकरीब करिणीसखः सह दीर्घदृशा विहरन्विहारदीर्घिकां बलवदास्फालनभयादिव समुत्तरत्तरङ्गलचितमणिसोपानपथां परस्परलीलाप्रहारदोहलावचितनलिनशयनसमुड्डीनकलहंसधवलपक्षपटलमुहूर्तघटितवियद्विता - नामतानीत् । कदाचिच्चन्द्रशालातलप्रसारितशयनमध्यं तनुमध्यया सहाधिवसन्वसन्तयामिनीषु निरन्तरमाविर्भवद्भिरमृतकरकिरणकन्दलैः कंदर्पदन्तावलकर्णतालावचूलचामरैर्नयनचकोरयोरातिथेयीमनल्पामकल्पिष्ट।
- तदेवं मनोरथपथातिवर्तिष्वमर्त्यलोकसुलभेषु विषमेषुविलाससाफल्यसंपादितविषयसुखेषु निमज्जति निकामविजृम्भितरजसि राजनि , कदाचित्कस्यांचन निशीथिन्यामनेन सह सौधशिखरभाजि पर्यङ्के पञ्चशरकेलीपरिचयपौनःपुन्यजन्मना परिश्रमेण परवशा महिषी सुष्वाप ।
ततश्चटुलचकोरचञ्चुपुटकबलनादिव विरलमहसि चन्द्रमसि निखिलनिशाजागरणजातया सुषुप्सयेव प्रविशति चरमगिरिगुहागह्वरमवतरदनूरुसारथिसपर्यापर्याकुलेन सप्तर्षिलोकेन विकचकुसुमकुतूहलादवचित इव विचेयतामुपेयुषि ज्योतिषां गणे गतप्राये रजन्यास्तुर्यप्रहरे राज्ञी स्वप्नत्रयमद्राक्षीत् । अत्याक्षाच्च तत्क्षण एव सा संजातशोकप्रसादविद्रावितां निद्राम् । अश्रौषीच्च प्रबुध्यमानभवनकलहंसरवमांसलं वचो मङ्ग