________________
प्रथमो लम्बः ।
इति लोकप्रवादा मुखरयन्ति नः श्रोत्रपथम् । अपि च सर्वथायमनर्थानुबन्धी परिहृतनिखिलेतरव्यापारः पक्ष्मललोचनायामत्यासङ्गः । यतः सुरासुरसमरकण्डू लदोर्दण्डमण्डली हेलोल्लासित कैलासकण्ठेोक्तपराक्रमः प्रतापभयविनमदनेकविद्याधरमकुटमणिपादपीठविलुठितचरणोऽपि रावणः प्रणयभरेण जनकदुहितरि जनितपारवश्यः समरशिरसि दशरथतनयनिधनाय निजकरविमुक्तेन रणलक्ष्मीमुखकमलविकास दिवस करसहचरेण चक्रेण यशः शेषतामनीयत । अपि च तपश्चरन्नतिदुश्चरमरविन्दसद्मा शङ्कितबलमथनप्रेषितवरयोषिद्विरचितविलासविलोकनविगलितधृतिरनुभवन्नात्मभुवश्चापलमभजदपहास्यताम् । तथा तथागतोऽपि कदाचित्कामशरपतनपरवशकरभपरिषदहमहमिकया परिग्रहपर्याकुलां कामपि बालेबीमालोकयन्करुणारसतरलितमतिराविर्भवदनेकशतभगशबलितकरभीवे - षः क्षणमस्थादिति नास्तिकचूडामणेर्महीयान्ननु कलङ्कस्तस्य । तदित्थमयशः पङ्कपयोधरागमे धर्मकमलाकरनिमीलननिशामुखे द्वितीयपुरुषार्थपरुपराजयक्ष्मणि जडजनजनितसंबाधे विवेकिलोकनिन्दिते कंदर्पवर्त्मनि न निर्भरं निदधति कृतधियः पदम् । तदविरोधेन धर्मार्थयोरनुभवन्कामसुखमजहदवनीपतिधर्मे पन्नगपरिवृढपरिभावुकेन बाहुना पालय पयोनिधिरशनालंकारिणीं धरणीम् " इति प्रणयस्वरूपसाक्षात्करणमणिदर्पणाभानि बहुविधनिदर्शनसंवाहितार्थानि प्रेक्षावदेकान्तहृद्यानि तदात्वककान्यप्युदर्कमधुराणि मन्त्रिवचनानि वनितोपभोगकुतूहलजालजटिलिते जननाथचेतसि निरवकाशतयेव न पदमलभन्त ।
१५
अथ भाविपरिभवचकितस्त्रान्तेषु सामन्तेषु कर्तव्याभावेन मूकीभवत्सु, शोककृशानुपरामर्शमर्मरितमनसि सीदति चिरंतने राजपरिजने, पर्यश्रुनयनेषु प्रवृत्तवनगमनश्रद्धेषु पौरवृद्धेषु पार्थिवस्तावन्मात्रतया धरित्रीराज्योपभोगादृष्टानां तथाभावितया तस्य वस्तुनो दुर्निवारतया मकर
"