SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ रथसिद्धिरिव पातिव्रत्यस्य , प्रकर्षरेखेव स्त्रीत्वस्य , मूर्तिरिव दाक्षिण्यस्य, कीर्तिरिव चारित्रस्य , विजयपताकेव पञ्चशरस्य , विजया नाम महिषी । तस्यां सौन्दर्यपुनरुक्ताभरणानामबलानां वर्गे सत्यपि निसर्गत एव नरपतेररमतान्तःकरणम् । अथ स राजा रजनीकराकरणकन्दलविपक्षैः क्षीरजलधिजठरलुठितफेनपटलविशदैर्यशःपल्लवैरापादितदिशाविलासिनीकर्णपूरः पूरितमनीषिजनमनोरथः प्रतिबलजलधिमथनमन्दरेण वसुंधरामयूरीनिवासविटपेन वीरलक्ष्मीकरेणुकालानेन भुजस्तम्भदम्भोलिना खण्डितभूभृन्मण्डलः कर्तव्यमपरमपश्यन्नवश्येन्द्रियः कुसुमचापचापलानि सफलयितुं सर्वाकाराभिरामया रामया सहाभिलषन्स्वभावनिशितधिषणावधीरितपुरुहूतपुरोधसि यथावदवगतराजनीतिवर्मनि फलितचतुरुपायविजृम्भितयशसि पराक्रममृगपतिनिवासजङ्गमजगतीभृति गभीरिमगुणगर्हितोदन्वति स्थैर्यपरिहसितकुलशिखरिणि कुलिशकठिनमनसि संकटेऽप्यखेदिनि निखिलारिचक्राक्रमणनिष्ठे काष्ठाङ्गारनामनि निरस्ततन्द्रे मन्त्रिणि निवेशयितुं राज्यभारमारभत ।। ____ तथा प्रारभमाणे च राजनि राजनीतिकुशलाः कुटिलेतरबुद्धयः कुलक्रमागतिभाजः कुत्सितकर्मपराचीनचेतोवृत्तयः शमिनि वयसि वर्तमानाः कतिचन सचिवाः समेत्य कृतप्रणामाः सप्रणयं व्यजिज्ञपन्– " देव , देवेनाविदितं किंचिदस्तीति न प्रस्तुमहे कथयितुम् । तदपि देवपादयोरनितरसाधारणी भक्तिरस्मान्मुखरयति । तदुचितमनुचितं वा प्रणयपरवशैरस्माभिरभिधीयमानमाकर्णयितुमर्हति स्वामी । देव , स्वहृदयमपि राज्ञा न विस्रम्भणीयम् । किमुतापरे । इयं हि स्वभावसरलनिजहृदयजनिता सर्वविश्वासिता विश्वानर्थकन्दः । क्षमापतयः शैलषा इव मन्त्रिषु नाटयन्ति विस्रम्भं न तु बध्नन्ति मनसा । यतश्चिरपरिचयसमुपचितेन विस्रम्भेण मन्त्रिषु निवेशितराज्यभारा राजानस्तैरेव व्यापादिता
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy