________________
११०
गद्यचिन्तामणौ
तासि । प्रयान्ति ममासवः' इति प्रलपतः कस्यचिदचलगह्वरप्रतिरवगभीरस्वरः काननं व्यानरो । तमुपश्रुत्येयमश्वस्यन्ती युवतिरनाश्वासात्कुमारे सद्यः काप्यन्तरधात् , आविरासीच स परुषप्रलापः पुरुषः । अप्राक्षीच्चायमाधिक्षीणः कुमारम् -. "अयि महाभाग, भागधेयविधुरोऽहं विद्यानां पारदृश्वा कोऽपि विद्याधरः । सोऽहं मम मातुलस्याङ्गजामनङ्गतिलकां नाम कन्यकामुदन्योपद्रुतामिह द्रुममूले क्वचिदवस्थाप्य प्रस्थितः पुनरुपस्थितश्वानीय पानीयं महनीयाकृति तां तत्र बिम्बोष्टी न दृष्टवान् । कुमार, कुमारीयं मामिदानीमुपेक्ष्य कटाक्षेणापि नेक्षते । तथा स्निग्धामिमां मुग्धामपश्यतो मम पारवश्यान्मांसदृष्टिरिव ज्ञानदृष्टिरपि नष्टेव प्रतिभाति । किमत्र करोमि । तत्रभवतः सकाशं किमियमविशत्" इति । कुमारोऽप्यत्यारूढरागमूढस्य गगनचरस्य वचनमतिदीनं निशम्य 'न शाम्यति हि कर्मोपशमादृते दुर्मोचोऽयं रागरोगः । ततः खलु रागपरवशो लोकः स्वकुलं स्वशीलं स्वविभवं स्ववैभवं स्वशौर्य स्ववीर्यं स्वपौरुषं स्ववेदनमप्येकपद एव व्युदस्य दास्यमप्यभ्युपगच्छति । रागान्धो ह्यखिलेन्द्रियेणाप्यदर्शनादन्धादपि महानन्धः । केचिदेव हि वशिनः किमिदं किंविषयं कीदृक्कियत्किंफलमिति विचारचतुरकर्णधारा रागसागरं सदाजागरास्तरन्ति' इत्यन्तश्चिन्तयंश्चिन्तागौरवस्फुरितखेदं खेचरमुद्दिश्य 'भो नभोग, भोगलोलुपतया किमेवं विद्याशाली खिद्यसे । विकारहेतौ सति मनश्चेद्विक्रियते विद्यास्फूर्तिः किमर्थिका । कचिदस्थानपातिनो जनस्य याथात्म्यमवद्योतयितुं हि विद्याक्लेशः । दुराग्रहावकुण्ठितमतेस्त्वयं कण्ठशोषणमात्रफलः स्यात् । ततस्त्वया विहन्यतामियं कन्यानुपलम्भविजृम्भिता वैपश्चित्यशालिना शालीनता । किं च किं न जानासि तरुणीनां प्रतारणं मनस्यन्यद्वचस्यन्यत्कर्मण्यन्यन्ननु तासाम् । ताः खल्वमान्तं स्वान्तादिवोद्वान्तं काठिन्यस्वभावं कौटिल्यसंभारं रागप्राग्भारं तमःसंदोहं च स्तनद्वये