________________
सप्तमो लम्बः ।
१०९
नीषितं तवाचक्ष्व' इति । सा च समीहितविरोधिविजयानन्दनवचसा विवर्धितमन्मथा तन्मनोभेदननिष्णातां दूतीमिव मितहसितद्विगुणितदशनकिरणावलिं विनिःसारयन्ती विरचिताञ्जलिरेवमुपादत्त वक्तुम्-“अयि भद्र , विद्रावितविद्विषो विद्याधरराजस्य काचिदहं कन्या। गृहाद्विनिर्गस्य विजयार्धगिरौ साधं सखीभिराक्रीडे क्रीडन्तीमालोक्य मम स्यालः कोऽपि बलादवलम्ब्यं स्वविमानमारोप्य गच्छन्मध्येमार्ग निजसुमध्यारोषभीतः पातितवानत्र वने । पातकिनी चाहमिह पर्यटन्ती भवन्तमधुना दिष्टया दृष्टवती । किमन्यत् । एवमतिकृपणाहं भवतश्चरणयोः शुश्रूषया चरितार्थमात्मानं कर्तुमिच्छामि । बालानामबलानामशरणानां शरणागतानां च त्राणनं शौर्यशालिनां शैली चेञ्चतुर्णामेतेषां समवायस्यास्य जनस्य संरक्षणं करणीयं न वेत्यत्र भवानेव प्रमाणम्” इति ।
प्रकृतिधीर: कुमारोऽप्यविकृतेन्द्रियस्तद्वचनानन्तरम् ‘अम्ब , किं बतैवमादावेवास्माभिरननुमतमर्थमत्यर्थमर्थयसे । किमेतं रसरुधिराद्यशुचिवस्तुपर्याप्तमखिलाशुचिकुलसदनमविचारितरम्यमनुक्षणाविशरारं शरीरसंज्ञ मांसलं मांसपिण्डमालोक्यैवं मोमुह्यसे । पश्य पश्यतामेवास्माकं विनश्यतोऽस्य केवलमस्थिपञ्जरस्य चर्मयन्त्रस्य सिरागहनस्य रुधिरहदस्य पिशितराशेर्मेदःकुम्भस्य मलजम्बालपल्वलस्य रोगनीडस्य कलेबरस्य हेतुना केनचिदन्तःस्वरूपं चेदासीद्वहिरास्तामेतदनुभवास्था । स्प्रष्टुमथवा द्रष्टुमथवैतत्काकेभ्यो रक्षितुं वा कः शक्नुयात् । अतस्तं मक्षिकापक्षाच्छमलाच्छादनचर्मच्छायाप्रतारिताविवेकिन्यजस्रं स्त्रंसमानोद्वेलमलसहस्रसंगतसुषिरे संस्पर्शक्षणदूषितसमस्तप्रशस्तवस्तुनि जुगुप्सनीयपूतिगन्धिंदुराँसदाणुनिमाणे कर्मशिल्पिकल्पनाकौशलार्पितपेशलभ्रमे चर्मयन्त्रमित्रे गात्रेऽस्मिन्मा स्म कार्षीरत्यादरम्' इति व्याहार्षीत् ।
तावता 'मातुलसुते, मामतुलव्यथापाथोनिधौ पातयन्ती क प्रया
10