________________
सप्तमो लम्बः ।
नयनगमनवचनभूलतास्वधरकरचरणेषु चिकुरभारे च वहन्त्यः कथं रागान्धज़नादितरेभ्यो रोचन्ते । तस्मादशुचिमयीनामघमयीनामपवादमयीनामनार्जवमयीनाममार्दवमयीनां मायामयीनां मात्सर्यमयीनां महामोहमयीनां कामिनीनां कपटस्नेहे न विश्वासस्त्वया कार्यः' इत्युदीरयामास ।
ततश्चैवमत्यद्भुतं सात्यंधरिवचनं निशम्याप्यनुपशाम्यन्मन्युभरिते तत्कन्यान्वेषणप्रवणे गते तस्मिन्गगनेचरे, वनिताजनवञ्चनाप्रपञ्चमञ्जसा साक्षात्करणन मुहुर्मुहुः संचिन्तयन्नेव कुमारस्तस्मादियाय । तदनु च कचित्प्रत्यन्तवीक्ष्यमाणविषमविषाणभीषणवृषकुलवृषस्याकलहविजृम्भितनि - पोषपूरितघोषघोषेण क्वचित्प्रशस्तप्रदेशनिवेशितविशालशालोद्भवदतिप्रभूताध्ययनध्वनिना कचिद्विशङ्कटकठिनस्थलघटितेक्षुयन्त्रकुटीरकोटिनिबिडकोलाहलेन क्वचित्पाककपिशकणिशशालिशालेयक्षितिसुलभशालिसस्यलवनतुमुलेन सर्वतश्च संचरन्नितम्बिनीपदावलम्बनलम्पटताञ्चितम शिजानमञ्जीररवेण च महितस्य मध्यदेशस्य मध्ये विनिवेशितां विशालजालरन्ध्रविनिर्यदगुरुधूमजालविलसदकालजलदागमाम_कषहर्म्यनिहनिखा - तनैकमणिमहःकल्पितशतमखचारुचापविभ्रमां विविधमहोत्सवताड्यमानलटहपटहपटुतररटितपर्जन्यगर्जितां शम्पाविडम्बिबिम्बाधरानिकरालोकप्रावृतां प्रावृडाभां हेमाभपुरी हेमकोशशङ्कया विशन्विवशपौररामानयनसुमनोभिरविराममर्चितः कुमारः कमप्यनारतकुसुमाभिरामाराममगाहिष्ट, ऐक्षिष्ट च कचिदसकृत्प्रहितपृषत्कास्पृष्टमाक्रष्टुमाम्रफलमायस्यन्तमङ्गस्यन्दिलावण्यवनं कमपि युवानम् । तदालोकनेन तदायासमपसारयितुमधिज्यधन्वनस्तस्मादयं धन्वी धनुराकृष्य पुनराततज्यमेतदातन्वन्विकृष्य मात्रया पत्रिणं प्राहिणोत् । प्रत्यगृह्णाच्च तत्रैवावस्थाय नात्यादरव्यापारितवामेतरपाणिना फलेन समं संमुखमागतं संदेशहरमिव चतुरं शरम् । पुनरालीढशोभिनस्तस्यालोक्य सात्यंधेरेरधरिताखिलचापधरं चापदण्डारोपणे त