________________
|| श्री: ॥ ॥ गद्यचिन्तामणिः श्रीवादीभसिंहश्च ॥
अयं वादीभसिंहः कविर्दिगम्बरजैनो यतिः पुष्पसेनमुनेरन्तेवासी च । क्षत्रचूडामणिर्गद्यचिन्तामणिश्चेति द्वावेव ग्रन्थावेतत्कृतावुपलभ्यते । अस्यानितरसाधारणी नैपुणी पश्यन्तः पण्डिताः 'वादीभसिंहः' इति नाम चक्रुरिति प्रतीयते । सांस्कारिकं तु नाम 'ओडयदेवः' इत्यवगम्यते । अत्र प्रमाणवचनानि ग्रन्थादावन्ते च दृश्यन्ते
'श्रीपुष्पसेनमुनिनाथ इति प्रतीतो
दिव्यो मनुहृदि सदा मम संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि
वादीभसिंहमुनिपुङ्गवतामुपैति' ॥ ६ ॥ 'श्रीमद्वादीभसिंहेन गद्यचिन्तामणिः कृतः ।
स्थेयादोडयदेवेन चिरायास्थानभूषणः ॥ स्थेयादोडयदेवेन वादीभहरिणा कृतः ।
गद्यचिन्तामणिर्लोके चिन्तामणिरिवापरः' ॥ अत्र प्रथमोदाहृतश्लोक आत्मनो गुरुचरणध्यानमेवाज्ञानभञ्जकः सुज्ञानजनकः परमो मन्त्रजप इति स्वाशयमाविष्करोति कविः । 'ओडयदेवः' इत्यदसीयनामश्रवणाद्दाक्षिणात्योऽयं कविरित्यवगम्यते । यतः 'उडयदेवः' 'ओडयदेवः' 'ओडयात्तेवः' 'ओडयाल्वार' इत्येवं नामकरणं दाक्षिणात्येष्वेव कतिपयजातीयेषु दृष्टचरं प्रसिद्धं च । अद्यापि विद्यन्त एव शालिवाटीप्रमुखेषु प्रदेशेषु (Tinnevelly and other Districts) 'उडयदेवः' इति नामवन्तोऽवरवर्णजाः पुरुषाः ।