________________
दशमो लम्वः ।
१४९ .
नन्दाढ्यं महामात्रादिपदे पद्ममुखादीन्द्विषड्वर्षपर्यवस्यदकरपदे च जानपदान् । अतोषयच्च विषयान्तरेषु पुरा व्यूढानाहूतप्रविष्टानभिनिविष्टप्रेमाभिभूततया पादयोः पततः परिस्फुरदमन्दानन्दप्राग्भारोद्वान्तनितान्तशिशिराश्रुवर्षेणेव पांसुपरुषाधिंधावनसावधानान्तःकरणानन्तःस्फुरितविरहशोककृशानुकृशीकृताङ्गतया कृशाङ्गीति नाम सार्थमिव समर्थयतः स्वसंगमवासरकृताङ्गरागमाल्याद्यलंकृतान्पातिव्रत्यपताकाः पावनगुणोदारान्दारान् । अघोषयच्च धर्मचक्रभूषितललाटेन हर्षोद्भुरेण वीध्रवसनाङ्गरागसुमनोमण्डितेन शुण्डालौरसारोपितडिण्डिमेन चण्डालाधिकृतेन कृतभगवन्नमस्कारपूर्वकम् ‘संवर्धतां सद्धर्मः । सार्वभौमः क्षेमी क्षितिमण्डलमपायाञ्चिराय पायात् । अपेतसकलेतिरुपेतविश्वसस्या च भवतु विश्वंभरा । भवन्तु भव्या दिव्यजिनागमश्रद्धालवः सविचाराः साचाराः सानुभावाः सविभवाः सदयाः सदानाः सगुरुभक्तयः सजिनभक्तयः सायुष्याः सवैदुष्याः सहर्षाश्च पुरुषाः । धर्मपत्न्यः सधर्मकृत्याः सपातिव्रत्याः सतनयाः सविनयाश्च भूयासुः । भूयः श्रूयतामेतत् । देवविधित्सितविवाहोत्सववराहीभूतसप्तवासरावधिकमधिकं नगरीयमलंक्रियताम् । आहार्यविशेषः सविशेषमङ्गेष्वामुच्यताम् । अतिबहलागुरुधूपै—मायमानं केशजालमम्लानमालाभिरशून्यमातन्यताम् । नखंपचपायसाशनमनिशमश्यताम् । अरुच्यं तु भैषज्यमपि नोपभुज्यताम् । भज्यतां परमेश्वरस्य पादपद्मम् । इदानींतनाः सन्तु सनातनाः' इति ।
तदैवं घोषिते, केषुचिद्राजचरितोघोषणपरेषु पौरवृद्धेषु ‘क पूज्यं राजपुत्रत्वं प्रेतावासे क वा जनिः ।
क वा राज्यपुनःप्रातिरहो कर्मविचित्रता ॥' इति ससंवेगं प्रतिद्वारमुदीरयत्सु , परेषु तु पौरेषु 'सत्वरमलिन्दभूलि, मलयजरसेनालिप्यताम् । मृगलोचने , मृगमदमाहर । प्रसाधिके,