Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
९७२
द्वात्रिंशिका - १४/१८
त्वात्तेनैव तदाक्षिप्यत इति भावः । तदुक्तं
'चारु 'चैतद्यतो ह्यस्य तथोहः सम्प्रवर्तते । एतद्वियोगविषयः शुद्धाऽनुष्ठानभाक् स यत् । प्रकृतेरा यतश्चैव नाऽप्रवृत्त्यादिधर्मताम् । तथा विहाय घटते ऊहोऽस्य विमलं मनः ।। सति चाऽस्मिन् स्फुरद्रत्नकल्पे सत्त्वोल्वणत्वतः । भावस्तैमित्यतः शुद्धमनुष्ठानं सदैव हि ।। ' ( योगबिन्दु २०६ - ७ - ८ ) । हि प्रकृतेः कर्मसंज्ञिताया अप्रवृत्ति - विरोधिप्रवृत्तियोगाभ्यां = शक्यहेयनिवृत्त्युपादेयप्रवृत्तिभ्यां सम्यगनुष्ठानाऽवन्ध्यकारणत्वात् तेनैव विशुद्धोहापोहयोगेनैव तत् सम्यगनुष्ठानं आक्षिप्यते = उपधीयते ।
=
प्रकृते योगबिन्दुसंवादमाह - 'चारु चे 'ति, 'प्रकृते 'रिति, 'सती'ति च । तद्वृत्तिस्त्वेवम् चारु च = सुन्दरमेव एतद् = मोक्षचित्तमभिलाषरूपम् यतो = यस्मात् हिः स्फुटं अस्य = भिन्नग्रन्थेः तथा = तत्प्रकारः, ऊहो विमर्शः सम्प्रवर्तते स्वयमेव जायते । एतद्वियोगविषयो भवपार्थक्यगोचरः । तथा शुद्धानुष्ठानभाक् = परिशुद्धशुश्रूषा-धर्मरागादिसमाचारभाक् स = भिन्नग्रन्थिर्जीवः यद् यस्माद् वर्तत इति (यो . बिं. २०६ वृ.) । प्रकृतेः कर्मसंज्ञितायाः आ = अर्वाक् यश्चैव = यत एव च हेतोः न = नैव अप्रवृत्त्यादिधर्मतां अप्रवृत्तिः = निवृत्ताधिकारित्वं, आदिशब्दात्तथाविधान्यप्रवृत्तिधर्मसंग्रह: ततोऽप्रवृत्त्यादयो धर्मा यस्याः सा तथा तद्भावस्तत्ता ताम् । तथा = तेन प्रकारेण विहाय विरहय्य, घटते = युज्यते ऊहः = उक्तरूपः अस्य = भिन्नग्रन्थेः । किंलक्षणोऽसावित्याह 'विमलं' अमलीमसं मनः = चित्तमिति । अयमभिप्रायः प्रकृतेरप्रवृत्त्यादिधर्मतां विहायाऽर्वाक् न संसारिणो जीवस्योक्तलक्षण ऊहो घटते किन्तु निवृत्त्यादिषु सत्स्विति (यो. बि. २०७ वृ.) । सति च = विद्यमाने पुनः अस्मिन् ऊहे विमलमनोरूपे स्फुरद्रत्नकल्पे विशेषसमाने, किमित्याह - सत्त्वोल्बणत्वतः सत्त्वं वीर्यं तस्योल्बणत्वमुदग्रत्वं तस्मात् भावस्तैमित्यतो भावः = अन्तःकरणं, तस्य = स्तैमित्यं क्षुद्रतादिभिर्भवाभिनन्दिचित्तदोषैरक्षोभणीयता, तस्मात् शुद्धं अनवद्यं अनुष्ठानं धर्मशास्त्रशुश्रूषणादि 'सदैव हि ' सर्वकालमेव स्यात्, परिशुद्धोहापोहयोगस्य શુભ પ્રવૃત્તિ કરાવવામાં તત્પર છે. આમ તથાવિધ પરિશુદ્ધ ઊહાપોહના યોગથી જ સમ્યક્ અનુષ્ઠાન ખેંચાઈને આવે છે. તેથી સમિતી પાસે શુદ્ધ ક્રિયા પણ હોય છે- આમ સિદ્ધ કરવાનો અહીં આશય છે.
समुज्जृम्भमाणरुचिजालजटिलपद्मरागादिमणि
=
યોગબિંદુ ગ્રંથમાં પણ જણાવેલ છે કે → સમકિતીનો મોક્ષઅભિલાષ સુંદર જ છે. કારણ કે ‘સંસારથી કઈ રીતે છુટકારો થાય ? કયારે થાય ?’ તે રીતે જ તેની વિચારણા પ્રવર્તતી હોય છે. આ કારણસર સમકિતી જીવ શુદ્ધ અનુષ્ઠાનને સંપ્રાપ્ત કરે છે. (યો.બિં.૨૦૬) આનું કારણ એ છે કે પહેલેથી જ કર્મપ્રકૃતિના પાપનિવૃત્તિ વગેરે ગુણધર્મને છોડીને તેની નિર્મળ વિચારસરણી સંગત ન થઈ શકે. મતલબ કે સમકિતીની કર્મપ્રકૃતિ રવાના થવાના સ્વભાવવાળી ન હોય તો તેની વિચારસરણી નિર્મળ સંભવી ન શકે. સમકિતીનું મન પણ નિર્મળ હોય છે. (યો.બિ.૨૦૭) સ્ફુરાયમાન રત્નતુલ્ય અન્તઃકરણ હોતે છતે વીર્યોલ્લાસની પ્રબળતાથી અને અંતઃકરણની દૃઢતાથી સમકિતીનું અનુષ્ઠાન કાયમ શુદ્ધ જ હોય છે. ← (યો.બિ.૨૦૮)
=
=
=
• परिशुद्धोहापोहयोगस्य सदनुष्ठानाऽवन्ध्यकारणता •
=
=
=
=
=
=
=
१. मुद्रितप्रती 'वैत...' इत्यशुद्धः पाठः । २. हस्तादर्शे 'श्रद्धा....' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'सल्ब....' इत्यशुद्धः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org