Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 345
________________ निरपेक्षप्रवृत्तौ मानसातिचारस्य भङ्गरूपता • द्वात्रिंशिका - १८/१२ खेदोद्वेगभ्रमोत्थानक्षेपाऽऽसङ्गाऽन्यमुदुजाम् । त्यागादष्टपृथक्वित्तदोषाणामनुबन्ध्यदः ।। १२ ।। खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां अष्टानां पृथक्चित्तदोषाणां = २अयोगिमनोदोषाणां (=अष्टपृथक्वित्तदोषाणां) त्यागात् = परिहारात् अदो ध्यानं अनुबन्धि = उत्तरोत्तरवृद्धिमद्भवति । यद्यप्यन्यत्र १२३८ · “खेदोद्वेग-क्षेपोत्थान-भ्रान्त्यन्यमुद्रुगाऽऽसङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान्”।। (षो.१४/३) इत्येवं क्रमोऽभिहितस्तथाप्यत्र बन्धाऽऽनुलोम्याद्व्यत्ययेनाऽभिधानमिति द्रष्टव्यम् ।।१२।। ज्ञानबलेनाऽऽत्माऽनवभासे तात्त्विकशुद्धध्यानाऽभाव एव ज्ञेयः, तदुक्तं त्रिलोकप्रज्ञप्ती ज्झाणे जदि णिय-आदा णाणादो णाऽवभासदे जस्स । ज्झाणं होदि ण, तं पुण जाण पमादो हु मोह मुच्छा वा । । ← ( त्रि. प्र. ९ / ४० ) इति । देवसेनाचार्येणापि तत्त्वसारे झाणट्ठिओ हु जोई जइ णो संवेइ णियय- अप्पाणं । तो ण लहइ तं सुद्धं भग्गविहीणो जहा रयणं । । ← (त.सा. ५/१ ) इत्युक्तम् ||१८/११।। इदं ध्यानं कदा सानुबन्धं भवति ? इत्याशङ्कायामाह - ' खेदे 'ति । खेदादीनां अनुपदमेव वक्ष्यमाणलक्षणानां अष्टानां अयोगिमनोदोषाणां परिहारात् । इदञ्च पर्यायार्थिकनयेनोक्तम् । द्रव्यार्थिकनयेन त्वष्टानामयोगिजनमनसां परिहारादिति योज्यम् । द्रव्य-पर्यायोभयापेक्षप्रमाणविवक्षायाञ्च अष्टानां खेदादिदोषयुक्ताऽयोगिजनचित्तानां परिहारादिति प्रयोज्यम् । इत्थं त्याज्यपरिहारात् तदुत्तरञ्च भावयोगिपारम्पर्यमनः स्वीकारेण परमात्मस्वरूपगोचरं ध्यानं उत्तरोत्तरवृद्धिमत् = प्रवाहेण वर्धमानं भवति, अन्यथा तु दोषः स्यात्, निरपेक्षप्रवृत्तौ, मानसातिचारस्यापि भङ्गरूपत्वात् । तदुक्तं षोडशके अष्टपृथग्जनचित्तत्यागाद् योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं, योगविधावन्यथा दोषः ।। ← ( षो. १४ / २ ) इति । यद्यपि अन्यत्र = षोडशके ‘खेदोद्वेगक्षेपोत्थाने 'त्यादिरूपेण दोषाणां क्रमः श्रीहरिभद्रसूरिभिः अभिहितः तथापि अत्र = योगभेदद्वात्रिंशिकायां बन्धाऽऽनुलोम्यात् = छन्दोरचनाऽऽनुकूल्याद् व्यत्ययेन = क्रमविपर्ययेण अभिधानम् ।।१८ / १२।। * સાનુબંધ ધ્યાન દોષત્યાગ દ્વારા શક્ય છે . गाथार्थ :- जेह, उद्वेग, भ्रम, उत्थान, क्षेप, आसंग, जन्यमुद्द, रोग - खा आठ जयोगियित्तगत દોષના ત્યાગથી ધ્યાન અનુબંધવાળું થાય છે. (૧૮/૧૨) ટીકાર્થ :- અયોગીના મનના જે દોષો આગળ કહેવામાં આવશે તે ખેદ, ઉદ્વેગ વગેરે સમજવા. तेना त्यागधी खा ध्यान उत्तरोत्तर वृद्धिने पामे छे. भे षोडश ग्रंथमां 'जेह, उद्वेग, क्षेप, उत्थान, ભ્રાન્તિ, અન્યમુદ્, રોગ અને આસંગથી યુક્ત એવા ચિત્તોને બુદ્ધિશાળીએ સાનુબંધ રીતે છોડવા જોઇએ.’ આ પ્રમાણે આઠ ચિત્તદોષનો ક્રમ બતાવેલ છે. છતાં પણ અહીં છંદના બંધારણને અનુસરીને ક્રમમાં વ્યત્યય=ફેરફાર કરીને ચિત્તદોષોનો ઉલ્લેખ કરેલો છે. આ વાત ધ્યાનમાં રાખવી. (૧૮/૧૨) વિશેષાર્થ :- ભોગીના મનના આઠ દોષ છે. તેને છોડવાથી ધ્યાન વૃદ્ધિ પામે છે. યોગની આઠ १. हस्तादर्शे 'बन्ध्यांदः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ' योगिम...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378