Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 353
________________ १२४६ • असङ्गानुष्ठानस्यैव परमार्थतः कर्तव्यता • द्वात्रिंशिका-१८/१९ ततोऽयं आसङ्गो हन्त तन्मात्रगुणस्थाने = अधिकृतगुणस्थानमात्रे स्थितिप्रदः, न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह- "आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं' यतः परमम् ।।” (षोड. १४/११) ।।१८।। विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गार वृष्ट्याभाऽत्यनादरविधानतः।।१९।। विहित इति । प्रकृतात् = प्रस्तुतात् कर्मणः अन्यत्र विहितेऽविहिते वाऽर्थे मुत् = प्रीतिः तत्कााऽऽराधनात्, भगवति गौतमप्रतिबन्धो ज्ञातमप्यत्रेति (यो.श.१८) व्यक्तं योगशतकवृत्तौ । अत एव विशिष्टक्रियापरिणतमतिः यथावसरं परमोपेक्षायामेव निविशते, तस्या एव निर्वाणसुखवर्णिकारूपत्वादिति (अ.परी.१८० वृत्ति) व्यक्तमुक्तं अध्यात्ममतपरीक्षावृत्तौ । परेषामपि सम्मतमिदम् । तदुक्तं भगवद्गीतायां → असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः - (भ.गी.३/१९) इति । ग्रन्थकृत् प्रकृते षोडशकसंवादमाह- 'आसङ्गेऽपीति । अत्र योगदीपिकाव्याख्यैवम् → आसङ्गेऽपि चित्तदोषे सति विधीयमानाऽनुष्ठाने 'इदमेव सुन्दरमि'त्येवंरूपे अविधानात् = तद्भावपुरस्कारेण शास्त्रविध्यभावात् प्रत्युताऽनासङ्गभावं पुरस्कृत्य विधिप्रवृत्तेः असङ्गा = सङ्गरहिता सक्तिः = अनवरतप्रवृत्तिः तस्या उचितं = योग्यं इति कृत्वा । अफलं = इष्टफलरहितं एतत् = अनुष्ठानं भवति, यतः = यस्मात् तदपि शास्त्रोक्तत्वेन प्रसिद्धमप्यनुष्ठानं परमं = प्रधानं असतं = अभिष्वङ्गरहितं उच्चैः = अतिशयेन इष्टफलदं = इष्टफलसम्पादकं भवति । आसङ्गयुक्तं ह्यनुष्ठानं गौतमगुरुभक्तिदृष्टान्तेन तन्मात्रगुणस्थानकस्थितिकार्येव, न मोहोन्मूलनद्वारेण केवलोत्पत्तये प्रभवति । तस्मात् तदर्थिनाऽऽसङ्गस्य दोषता ज्ञेयेति - (षो.१४/११) ।।१८/१८।। _प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तावन्यमुद्दोषमाह- 'विहित' इति । प्रकृतकार्यान्यकार्यप्रीतिरिति योगदीपिकायाम् (षो.१४/३ यो.दी.) । इष्टे = अभिलाषगोचरे क्रियमाणाऽनुष्ठानभिन्ने विहितेऽविहिते वा તેથી ખેદની વાત છે કે આસંગ દોષ માત્ર તે જ વિવક્ષિત ગુણસ્થાનકે સ્થિતિ કરાવનાર થાય છે. પરંતુ મોહને મૂળમાંથી ઉખેડવા દ્વારા કેવળજ્ઞાનની ઉત્પત્તિ માટે તે સમર્થ થતો નથી. માટે આસંગથી પણ થતી યોગસાધના પરમાર્થથી નિષ્ફળ જ છે. ષોડશક ગ્રંથમાં જણાવેલ છે કે કે આસંગ દોષ હોય ત્યારે પણ આ યોગસાધના નિષ્ફળ બને છે. કારણ કે આસંગપૂર્વક યોગસાધના કરવાનું વિધાન નથી. શાસ્ત્રમાં તો “અસંગ પ્રવૃત્તિથી થતી યોગસાધના યોગ્ય છે એમ જણાવેલ છે. કારણ કે પ્રધાન એવું આ અસંગ અનુષ્ઠાન અત્યંત ઇષ્ટફળદાયક બને છે. ૯ (૧૮/૧૮) * 'मन्यमुह' घोषने परिहरीमे. ગાથાર્થ - પ્રસ્તુત સિવાયના વિહિત કે અવિહિત પદાર્થમાં પ્રીતિ કરવી તે અન્યમુદ્ દોષ જાણવો. અત્યંત અનાદરથી આરાધના કરવાથી ખરેખર ઈષ્ટ પદાર્થમાં તે અંગારાની વૃષ્ટિ સમાન થાય છે. (૧૮/૧૯) ટીકાર્થ :- પ્રસ્તુત આરાધનાથી અન્ય શાસ્ત્રવિહિત કે અવિહિત કામમાં પ્રીતિ થાય તે અન્યમુદ્ર १. हस्तादर्श '...संगतं' इत्यशुद्धः पाठः। २. हस्तादर्श 'दृष्टना...' इत्यशुद्धः पाठः। ३. हस्तादर्श 'प्रसुप्ता...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378