Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 358
________________ • परमार्थतोऽर्थानामिष्टत्वाऽनिष्टत्वाऽभावः • १२५१ __व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या वितथगोचरया कुव्यवहारवासनयाऽविद्यापराऽभिधानया उच्चैः = अतीव कल्पितेषु इष्टाऽनिष्टेषु = इन्द्रियमनःप्रमोददायिषु तदितरेषु च वस्तुषु = शब्दादिषु विवेकेन = “तानेवार्थान् द्विषतस्तानेवाऽर्थान् प्रलीयमानस्य। निश्चयतो' नाऽनिष्टं न विद्यते किंचिदिष्टं वा ।।” (प्र.र.५२) इत्यादिनिश्चयाऽऽलोचनेन तत्त्वधीः = इष्टाऽनिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । चतुर्थं योगभेदमाह- 'व्यवहारे'ति । → नित्य-शुच्यात्मताख्यातिरनित्याशुच्यनात्मसु अविद्या 6 (ज्ञा.सा.१४/१) इत्येवं ज्ञानसारे व्यावर्णितस्वरूपया, यद्वा → ‘देहोऽहमि'ति या बुद्धिरविद्या सा प्रकीर्तिता - (अ.रा.अयोध्याकाण्ड-४/३३) इति अध्यात्मरामायणे दर्शितरूपया, यद्वा → अनात्मन्यात्मबुद्धिर्या चाऽस्वे स्वमिति वा मतिः । संसारतरुसम्भूतिबीजमेतद् द्विधा मतम् ।। 6 (वि.पु.६/७/११) इति विष्णुपुराणकथितया अविद्याऽपराऽभिधानया अतीव = मन्दबोध-शिथिलश्रद्धा-सातिचारानुष्ठानाद्यनिवर्तनीयरूपेण कल्पितेषु इष्टाऽनिष्टेषु इष्टानिष्टत्वसंज्ञोपहितेषु । प्रशमरतिसंवादोपदर्शनेन विवेकोत्थानमाह- 'तानेवाऽर्थानि'ति । इदञ्च जैनतन्त्रावस्थितान् योगिनोऽधिकृत्य विज्ञेयम् । वैदिकतन्त्रस्थानपुनर्बन्धकानाऽऽश्रित्य तु → वस्त्वेकमेव दुःखाय सुखायेागमाय च । कोपाय च यतस्तस्माद् वस्तु वस्त्वात्मकं कुतः?।। 6 (वि.पु.२/६/४५) इति विष्णुपुराणवचनं तादृशविवेकनिमित्ततयाऽवसेयम् । एतेन → मनसः परिणामोऽयं सुख-दुःखादिलक्षणः - (वि.पु.२/६/४७) इति विष्णुपुराणवचनमपि तादृशमेव विज्ञेयम् । इष्टाऽनिष्टत्वपरिहारेण = अविद्याकल्पितेष्टत्वाऽनिष्टत्वसंज्ञाव्युदासेन । शिष्टं स्पष्टम् । उष्ट्रकण्टकभक्षणन्यायेनैव शब्दादिविषयेषु सुखादिबुद्धिरवसेया प्राणिनाम् । तदुक्तं वाचस्पतिमिश्रेण अपि भामत्यां → यदि पुनरेते एव सुख-दुःखस्वभावा भवेयुस्ततः स्वरूपत्वाद् हेमन्तेऽपि चन्दनः सुखः स्यात् । न हि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत् । न ह्यसौ कदाचिदकुङ्कुमपङ्कः । एवं कण्टकः क्रमेलकस्य सुख इति मनुष्यादीनामपि प्राणभृतां सुखः स्यात् । न ह्यसौ कांश्चित्प्रत्येव कण्टकः - (व्र.सू.२/२/१-भा.पृ.३८०/१) इति । જ સાચી સમતાને સમજીએ જ * ટીકાર્થ :- અનાદિકાલીન મિથ્યાગોચર કુવ્યવહારસંબંધી વાસનાનું બીજું નામ અવિદ્યા છે. ઇન્દ્રિય અને મનને આનંદ આપનાર વિષયોમાં તે અવિદ્યાથી અત્યંત ઈષ્ટપણાની કલ્પના કરવામાં આવે છે. તથા મનને દુઃખદાયી વિષયોમાં તે જ અવિદ્યાથી - કુસંસ્કારથી અત્યંત અનિષ્ટપણાની કલ્પના કરવામાં આવે છે. મતલબ કે શબ્દરૂપ વગેરે વિષયોમાં ઈષ્ટત્વ કે અનિષ્ટત્વ અવિદ્યાકલ્પિત છે, વાસ્તવિક નહિ. તેવા ઇષ્ટ-અનિષ્ટરૂપે કલ્પાયેલા વિષયોમાં વિવેકદષ્ટિથી તુલ્યતાબુદ્ધિ લાવવી તે સમતા કહેવાય છે. વિવેકદષ્ટિનો એક પ્રકાર એ છે કે “ તે જ શબ્દાદિ વિષયોનો દ્વેષ કરનાર માણસ કાલાંતરે તે જ વિષયોમાં મસ્તીથી લયલીન બની જાય છે. તેથી પરમાર્થથી જીવને કશું ઇષ્ટ કે અનિષ્ટ નથી આ રીતે નિશ્ચયાત્મક વિચારણાથી વિષયોમાં ઈષ્ટત્વ-અનિષ્ટત્વની કલ્પનાનો પરિહાર કરીને વિષયોમાં જે તુલ્યતાની બુદ્ધિ કરવામાં આવે તે ઉપેક્ષાસ્વરૂપ સમતા કહેવાય છે. १. हस्तादर्श 'वितथागो...' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्रतीप...' इत्यशुद्धः पाठः । ३. "निश्चयतोऽस्यानिष्टं' इति प्रशमरतौ पाठः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378