Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• मनोगुप्तिसमवतारविचारः •
१२५९
प्रवृत्तीति । प्रवृत्तिः = प्रथमाऽभ्यासः, स्थिरता = उत्कर्षकाष्ठाप्राप्तिः ताभ्यां (= प्रवृत्तिस्थिरताभ्यां हि) मनोगुप्तिद्वये किल आद्याः = चत्वारो भेदा अध्यात्म-भावना-ध्यान-समतालक्षणा इष्यन्ते, व्यापारभेदादेकत्र क्रमेणोभयोः समावेशाद्, यथोत्तरं विशुद्धत्वात् । तथाऽन्त्यायां चरमायां तत्र = मनोगुप्तौ अन्तिम वृत्तिसङ्क्षय इष्यते । इत्थं हि पञ्चाऽपि प्रकारा
निरपाया एव ।।२८ ॥
मनोगुप्तावध्यात्म-भावनादिसमवतारमाह- 'प्रवृत्ती 'ति । प्रथमाऽभ्यासः = प्राथमिकाऽनुशीलनं, उत्कर्षकाष्ठाप्राप्तिः = समुत्कर्षप्राप्तचरमसीमाऽऽप्तिः, ताभ्यां = निरुक्तप्रवृत्ति-स्थिरताभ्यां मनोगुप्तिद्वये विमुक्तकल्पनाजाल-समत्वसुप्रतिष्ठितत्वलक्षणे आद्याः चत्वारो भेदा इष्यन्ते । आद्यत्वञ्चाऽत्राऽपेक्षाबुद्धिविशेषविषयत्वलक्षणमवसेयम्, अन्यथा भावनादिग्रहणाऽनुपपत्तेः । ततः किम् ? इत्याशङ्कायामाह- व्यापारभेदात् प्रवृत्ति-स्थिरतालक्षणदशाविशेषाद् एकत्र अध्यात्मादौ प्रत्येकं क्रमेण उभयोः आद्य-द्वितीयमनोगुप्त्योः समावेशात् ।
=
=
=
तथाहि- प्रथमाऽभ्यासदशावर्तिनी प्रथमा मनोगुप्तिः अध्यात्म-भावनयोः प्रत्येकं समाविशति। स्थिरताऽवस्थाप्राप्ता च सैव प्रतिस्वं ध्यान -समतयोरवतरति । एवमेव प्रथमाऽभ्यासपर्यायाऽऽक्रान्ता द्वितीया मनोगुप्तिः अध्यात्म-भावनयोः प्रतिस्वमन्तर्भवति । स्थिरताऽऽ लिङ्गिता च सैव ध्यान-समतयोः प्रत्येकं समवतरति । प्रथमाऽभ्यास-स्थिरतोपेतयोः मनोगुप्त्योः यथोत्तरं विशुद्धत्वात् । ततश्च या प्रथमाभ्यासकालीना प्रथमा द्वितीया च मनोगुप्तिः अध्यात्मसमाविष्टा ततो मनागधिकविशुद्धिसमेता प्रथमाभ्या सापन्ना सैव मनोगुप्तिर्भावनान्तर्भूता, ततश्चाऽधिकतरविशुद्धिसम्पन्ना स्थिरतापर्यायोपेता सैव मनोगुप्तिः ध्यानसमवतीर्णा, ततोऽपि चाऽधिकतमविशुद्धियुक्ता स्थिरताऽवस्थावर्तिनी सैव मनोगुप्तिस्समताऽन्तः प्रविष्टा, अध्यात्मभावनादीनामपि यथोत्तरं विशुद्धत्वात्, तथैवाऽनुभवात् । प्रकृते मणोगुत्तयाए णं जीवे एगग्गं जणयइ ← (उत्तरा. २९/५३) इति उत्तराध्ययनवचनमपि स्मर्तव्यम् ।
तथा चरमायां आत्मारामतालक्षणायां मनोगुप्तौ वृत्तिसङ्क्षय इष्यते । ततस्तस्यास्तत्राऽन्तर्भावो बोध्यः । अध्यात्मादीनां त्रिविधमनोगुप्तिषु तासाञ्च तेषु समावेश इति यावत् तात्पर्यम् । इत्थं हि योगस्य मोक्षमुख्यहेतुव्यापारलक्षणत्वे वृत्तिरोधलक्षणत्वे चित्तवृत्तिनिरोधलक्षणत्वे वा अध्यात्म-भावनाध्यान-समता-वृत्तिसङ्क्षयाऽभिधानाः पञ्चाऽपि प्रकाराः = योगभेदा निरपायाः योगविभागव्यवस्थाबाधकन्यूनताऽऽधिक्यादिदोषविनिर्मुक्ता एव इति स्थितम् ।।१८ / २८ ।।
મનોગુપ્તિના ચરમ ભેદમાં વૃત્તિસંક્ષય માન્ય છે. (૧૮/૨૮)
=
=
=
* મનોગુપ્તિ અને અધ્યાત્માદિનો સમવતાર
ટીકાર્થ :- પ્રાથમિક અભ્યાસને પ્રવૃત્તિ કહેવાય તથા ઉત્કર્ષની પરાકાષ્ઠા-ચરમસીમા પ્રાપ્ત થાય તે સ્થિરતા કહેવાય. આ પ્રવૃત્તિ અને સ્થિરતા દ્વારા મનોગુપ્તિના પ્રથમ બે ભેદમાં ખરેખર અધ્યાત્મ, ભાવના, ધ્યાન અને સમતા સ્વરૂપ ચાર યોગો માન્ય બને છે. કારણ કે વ્યાપાર બદલાઈ જવાથી ક્રમસર બન્ને ગુપ્તિનો એકમાં સમાવેશ થઇ શકે છે. કેમ કે તે યથાક્રમ વધુ વિશુદ્ધ છે. તથા ચરમ = ત્રીજી મનોગુપ્તિમાં ચરમ યોગ वृत्तिसंक्षय मान्य छे. जा रीते पांयेय प्रहार निर्दोष ४ छे. (१८ / २८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378