Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• अधिकारिकृतध्यानबल-फलपरामर्शः •
१२४९
वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः ।।२१।। वशितेति । सर्वत्र कार्ये वशिता चैव आत्माऽऽयत्ततैव भावस्य = अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव ( = भावस्तैमित्यमेव ) । अनुबन्धव्यवच्छेदो = भवान्तराऽऽरम्भकाणामितरेषां मुनीनां सर्वेषु भावेषु समः प्रदिष्टः ।। ← (हितो. मित्रलाभ - ७१ ) इत्येवमुक्तो हितोपदेशदर्शितो ग्राह्यः । उदाराशयता अपि → अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ।। ← (हि. मित्रलाभ / ११९) इत्येवंलक्षणा हितोपदेशदर्शिता ग्राह्या । उपलक्षणाद् गम्भीरता- धीरता - वीरतापरोपकारिता-सङ्क्लेशराहित्यादिग्रहणं कर्तव्यम् । तदुक्तं षोडशके
एतद्दोषविमुक्तं शान्तोदात्तादिभावसंयुक्तम् । सततं परार्थनियतं सङ्क्लेशविवर्जितञ्चैव ।। सुस्वप्नदर्शनपरं समुल्लसद्गुणगणौघमत्यन्तम् । कल्पतरुबीजकल्पं शुभोदयं योगिनां चित्तम् ।। एवंविधमि चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः ।। ← ( षो. १४/१२,१३,१४ ) इति । तदुक्तं उत्तराध्ययनसूत्रे अपि एगग्गमणसंनिवेसणयाए णं
चित्तनिरोहं करेइ ← ( उत्त. २९ / २६ ) इति ।।१८/२० ।।
अथ ध्यानफलं योगबिन्दुसंवादेन (यो. बिं. ३६३) ग्रन्थकृदाह - 'वशिते 'ति । दीर्घकाल - निरन्तरसत्काराऽऽसेविताद् ध्यानात् सर्वत्र अभिलषिते कार्ये योगिन आत्माऽऽयत्ततैव कर्तुमकर्तुमन्यथाकर्तुं स्वाधीनता जायते, न तु कर्माद्यधीनता, तथाविधसामर्थ्योद्भवात् यद्वा वक्ष्यमाणा ( द्वा.द्वा. २६ /१५ भाग६, पृ.१८१४ ) ऽणिमादिलब्धिगता वशिता ग्राह्या, यद्वशात् सर्वाण्येव भूतानि योगिवचनं नाऽतिक्रामन्ति । तथा अन्तः करणपरिणामस्य स्वकीयशुद्धचित्तपरिणतिप्रवाहस्य निस्तरङ्गक्षीरसमुद्रवत् निवातस्थानस्थितप्रदीपवद् वा निश्चलत्वमेव तथाविधाऽभ्यासपरिपाकात् स्थिरत्वमेव न तु कोलाहलादिनाऽस्थिरत्वं मलीनत्वं वा । तदुक्तं आत्मावबोधकुलके जं बद्धं पि न चिट्ठइ वारिज्जंतं विसरइ असेसे । झाणबलेण तं पि हु सयमेव विलिज्जइ चित्तं ।। ← ( आ. कु. ९) इति । ततश्चात्मप्रकाशोऽनिवारितप्रसर एव प्रतिबन्धकवि-गमात् । तदुक्तं आराधनासारे लवण व्व सलिलजोए झाणे चित्तं विलीयए जस्स । तस्स सुहाऽसुहडहणो अप्पाअणलो पयासेइ ।। ← ( आ.सा.८७ ) इति ।
प्रकृते चित्तविलयः सूक्ष्माऽऽभोगान्वितदृढाऽध्यवसायलक्षणो ज्ञेयः, न तु सर्वथा शून्यतास्वरूपः । तदुक्तं तत्त्वसारे अपि मणसलिले थिरभूए दीसइ अप्पा तहा विमले ← (त.सा. ४१) इति । परमानन्दपञ्चविंशतिप्रकरणे अपि तद्ध्यानं क्रियते भव्यं मनो येन विलीयते । तत् क्षणं पश्यति शुद्धं चिच्चमत्कारलक्षणम् ।। ← (पं. पं. विं. १० ) इत्युक्तम् । अनुबन्धव्यवच्छेदः हि भवान्तरारम्भकाणां बौद्धतन्त्राभिमतभवाऽऽश्रवाणां इतरेषाञ्च कामाश्रवाऽविद्याश्रवाद्यारम्भकाणाञ्च कर्मणां वन्ध्य
=
=
Jain Education International
=
=
=
=
ध्याननुं इज
ગાથાર્થ :- ‘સર્વત્ર વશીતા, ભાવની સ્થિરતા અને અનુબંધનો વિચ્છેદ ધ્યાનફળ છે.’ એમ તેના भाडारो भएरो छे. (१८/२१ )
टीडार्थ :- ( १ ) तमाम डार्थमां स्वाधीनता, (२) अंतःराना परिणामनी निश्चलता, तथा
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378