Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१२५६
• विद्याजन्मफलविचारः . द्वात्रिंशिका-१८/२५ योग्यतापरिहारात् रोधः = परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृत्तिसङ्क्षयः प्रोच्यते । तदाह- “अन्यसंयोगवृत्तीनां यो निरोधस्तथा तथा ।
अपुनर्भावरूपेण स तु तत्सङ्क्षयो मतः।।" (यो.बि.३६६) ।।२५।। योग्यता-समुचितयोग्यताविघटनात् यथाक्रमं केवलज्ञानलाभकाले = त्रयोदशगुणस्थानके अयोगिकेवलित्वकाले च = चतुर्दशगुणस्थानके च परित्यागः = अनुपादानं वृत्तिसङ्क्षयः प्रोच्यते । तदुक्तं योगबिन्दौ →
भावनादित्रयाऽभ्यासाद् वर्णितो वृत्तिसङ्क्षयः । स चाऽऽत्मकर्मसंयोगयोग्यताऽपगमोऽर्थतः ।। स्थूर-सूक्ष्मा यतश्चेष्टा आत्मनो वृत्तयो मताः । अन्यसंयोगजाश्चैता योग्यता बीजमस्य तु ।। तदभावेऽपि तद्भावो युक्तो नाऽतिप्रसङ्गतः । मुख्यैषा भवमातेति तदस्या अयमुत्तमः ।।
6 (यो.बि.४०५-४०७) इति ।
ग्रन्थकृदपि अत्र योगबिन्दुसंवादमाह- ‘अन्येति । तद्वृत्तिस्त्वेवम् → इह स्वभावत एव निस्तरङ्गमहोदधिकल्पस्याऽऽत्मनो विकल्परूपाः परिस्पन्दरूपाश्च वृत्तयः सर्वा अन्यसंयोगनिमित्ता एव । तत्र विकल्परूपास्तथाविधमनोद्रव्यसंयोगात् परिस्पन्दरूपाश्च शरीरादिति । ततोऽन्यसंयोगेन या वृत्तयस्तासां यो निरोधः तथा तथा केवलज्ञानलाभकालेऽयोगिकेवलिकाले च अपुनर्भावरूपेण = पुनर्भवनपरिहाररूपेण स तु = स पुनः तत्सङ्क्षयः = वृत्तिसङ्क्षयो मतः - (यो.बि.३६६) इति ।
प्रकृष्टविद्याजन्मप्रभावेणाऽस्यामवस्थायां योगिनः काम-दृष्टि-कुशलानुष्ठानाऽऽत्मवादाधुपादान-सङ्कल्पविकल्पजालमुच्छिद्यतेऽसङ्गसाक्षिभावमात्रे च निस्तरङ्गमहोदधिकल्पे विश्रान्तिः सजायते बौद्धमताऽनुसारेण । तदुक्तं मज्झिमनिकाये क्षुद्रसिंहनादसूत्रे → “यतो च खो, भिक्खवे, भिक्खुनो अविज्जा पहीना होति विज्जा उप्पन्ना, सो अविज्जाविरागा विज्जुप्पादा नेव कामुपादानं उपादियति, न दिदुपादानं उपादियति, न सीलब्बतुपादानं उपादियति, न अत्तवादुपादानं उपादियति । अनुपादियं न परितस्सति, अपरितस्सं पच्चत्त व परिनिब्बायति । ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया ति पजानाती'ति - (म.नि. १।१।११।१४५-पृ.९८) इति यथागममेतत्तात्पर्यमत्राऽनुयोज्यं स्वपरसमयरहस्यवेदिभिः ।।१८/२५।। છે. કેવલજ્ઞાનની પ્રાપ્તિના સમયે તથા અયોગી કેવલીદશામાં તે વૃત્તિસંક્ષય હોય છે.
યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે “અન્ય દ્રવ્યના સંયોગથી ઉત્પન્ન થનારી વૃત્તિઓ ફરી ક્યારેય ઉભી ન થાય તે રીતે વૃત્તિઓનો તે – તે સમયે પરિત્યાગ કરવો તે વૃત્તિસંક્ષય મનાયેલ છે.” (૧૮) २५)
વિશેષાર્થ - સાગરમાં પવનથી મોજાઓ ઉત્પન્ન થાય છે. તેમ આત્મામાં મન-શરીર વગેરે પરદ્રવ્યના સંયોગથી વિકલ્પ અને પરિસ્પંદાત્મક મોજાઓ ઉત્પન્ન થાય છે. મનોદ્રવ્યના સંયોગથી વિકલ્પાત્મક વૃત્તિ થાય છે. તથા શરીરદ્રવ્યના સંયોગથી પરિસ્પંદન-કંપન-હલન-ચલન વગેરે ક્રિયા સ્વરૂપ વૃત્તિ ઊભી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org