Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२५० • ध्यानप्राधान्यविमर्शः .
द्वात्रिंशिका-१८/२२ च कर्मणां वन्ध्यभावकरणं च इति = एतद् ध्यानफलं विदुः = जानते ध्यानफलविदः ।।२१।। व्यवहारकुदृष्ट्योच्चैरिष्टाऽनिष्टेषु वस्तुषु । कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते ।।२२।। भावकरणं = मोघीभावापादनम् । तदुक्तं आत्मावबोधकुलके → जेण सुरासुरनाहा हहा अणाहुव्व बाहिया सो वि । अज्झप्पज्झाणजलणे पयाइ पयंगत्तणं कामो ।। - (आ.कु.८) इति ।
बौद्धानामपि चतुर्विधध्यानसिद्धयुत्तरमाश्रवविमुक्तिरभिमता, क्लेशवियुक्तचित्तेन तज्ज्ञानात् । तदुक्तं मज्झिमनिकाये भहालिसुत्ते → सो एवं समाहिते चित्ते परिसुद्धे परियोदाते अनङ्गणे विगतूपक्किलेसे... 'इमे आसवा' ति यथाभूतं पजानाति, ‘अयं आसवसमुदयो ति यथाभूतं पजानाति, ‘अयं आसवनिरोधोति यथाभूतं पजानाति, ‘अयं आसवनिरोधगामिनी पटिपदाति यथाभूतं पजानाति । तस्स एवं जानतो एवं पस्सतो कामासवा पि चित्तं विमुच्चति, भवासवा पि चित्तं विमुच्चति, अविज्जासवा पि चित्तं विमुच्चति + (म.नि.भाग-२/भिक्खुवग्ग-५/१३९) इति गम्भीरबुद्ध्या भावनीयम् । ___ ध्यानफलं → जह चिरसंचियमिंधणमनलो पवणसहिओ दुयं दहइ । तह कम्मेंधणममियं खणेण झाणानलो डहइ ।। - (ध्या.श.१०१) इत्यादिना ध्यानशतके दर्शितम् । यथोक्तं पञ्चसङ्ग्रहे अपि → विमलयरझाणहुयवहसिहाहिं णिद्दड्ढकम्मवणा - (पं.सं. १/२९) इति । अत एव श्रमणधर्मेष्वस्य प्राधान्यमिष्यते । तदुक्तं ऋषिभाषिते → सीसं जहा सरीरस्स जहा मूलं दुमस्स य । सव्वस्स साहुधम्मस्स तहा झाणं विधीयते ।। 6 (ऋ.भा. २१/१३) इति । मूलाराधनायां अपि → वइरं रदणेसु जहा गोसीसं चंदणं व गंधेसु । वेरुलियं व मणीणं तहज्झाणं होइ खवयस्स ।। 6 (मूला.१८९६) इत्युक्तम् । → झाणज्झयणं मुक्खं जइधम्मं (र.सा.११) इति रत्नसारवचनमप्येतदर्थाऽनुपातीत्यवधेयम् ।
बौद्धमते ध्यानफलं तु मज्झिमनिकाये → अप्पमत्तो हि झायन्तो पप्पोति विपुलं सुखं - (म.नि.२/ ३६/४) इत्येवमुक्तमित्यवधेयम् ।।
→ यदि शैलसमं पापं विस्तीर्णं बहुयोजनम् । भिद्यते ध्यानयोगेन नाऽन्यो भेदः कदाचन ।। 6 (ध्या.बि.१) इति ध्यानबिन्दूपनिषद्वचनमपि ध्यानफलप्रतिपादकतयाऽवसेयम् । अत एवाऽस्य मोक्षफलकत्वमप्युच्यते । तदुक्तं त्रिशिखिब्राह्मणोपनिषदि → कदम्बगोलकाऽऽकारं तुर्याऽतीतं परात् परम् । अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् ।। निवातदीपसदृशमकृत्रिममणिप्रभम् । ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता ।। - (त्रि.ब्रा.१५६-१५७) इति ।
एतेन → आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननिर्मथनादेव पाशं दहति मानवः ।। 6 (सदा.११) इति सदानन्दोपनिषद्वचनमपि व्याख्यातम् ।।१८/२१ ।। (૩) ભવાન્તર આરંભક કર્મોને અને અન્ય કર્મોને વાંઝીયા કરી દેવા તે ધ્યાનનું ફળ છે- એમ ध्यानणवेत्तामो यो छे. (१८/२१)
ગાથાર્થ - કુવ્યવહારની દૃષ્ટિએ અત્યંત કલ્પાયેલ એવી ઈષ્ટ અને અનિષ્ટ વસ્તુઓમાં વિવેકદૃષ્ટિથી तुल्यबुद्धि वी ते समता उपाय छे. (१८/२२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378