Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 360
________________ • इतरेतराश्रयापाकरणम् • १२५३ ध्यानेन विना चेयं = समता न भवति, प्रतिपक्षसामग्र्या बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं 'अन्योऽन्यकारणात् प्रवृत्तचक्रं = अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, अपकृष्टयोस्तयोमिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् ।।२३।। अत एव इष्टोपदेशे → अभवच्चित्तविक्षेप एकान्ते तत्त्वसंस्थितः। अभ्यस्येदभियोगेन योगी तत्त्वं निजात्मनः ।। (इष्टो.३६) संयम्य करणग्राममेकाग्रत्वेन चेतसः । आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ।। 6 (इष्टो.२२) इत्युक्तं देवनन्द्याचार्येण । ध्यानेन विना चेयं समता न भवति, प्रतिपक्षसामग्र्याः = विषमता-ममतान्यतराऽविकलसाधनसन्तत्याः बलवत्त्वात् । तदुक्तं योगशास्त्रे → न साम्येन विना ध्यानं न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद् द्वयमन्योऽन्यकारणम् ।। - (यो.शा.४/ ११४) इति । न च एवं = ध्यान-समतयोरन्योऽन्यकारणत्वे उत्पत्तौ अन्योऽन्याश्रयः इत्युभयोरेवानुत्पत्तिरिति शङ्कनीयम्, योगपरिभाषया अपकृष्टयोः = न्यूनबलयोः तयोः = ध्यान-समतयोः मिथ उत्कृष्टयोः = बलाऽधिकयोः हेतुत्वात् । प्रथममपकृष्टा समता जायमाना ध्यानमुपजनयति । तच्च समतोपहितं ध्यानं बलवती समतामुत्पादयति । सा च ध्यानोपहिता बलवती समता प्रबलं ध्यानमुपदधाति । तच्च प्रबलं ध्यानमुत्कृष्टां समतामुपढौकयति । सा चाऽप्रकम्पं ध्यानमित्यभ्युपगमे न काचित्क्षतिरित्याशयः । यदपि योगशास्त्रवृत्तौ श्रीहेमचन्द्रसूरयः → साम्यमन्तरेण ध्यानं न भवत्येव, ध्यानं तु विना साम्यं भवदपि निष्कम्पं न भवतीतीतरेतराऽऽश्रयदोषाऽभावः + (यो.शा.४/११४ वृत्ति) इत्याचक्षते तदप्येवं न विरुध्यते । उत्पादाऽपेक्षया भावनोत्तरं समतालाभस्तदुत्तरञ्च ध्यानस्येत्यभिप्रायेण योगशास्त्रे ध्यानपूर्वं समतोपन्यासः । इह तु विशुद्ध्यपेक्षयोपन्यासाद् ध्यानोत्तरं समतानिर्देश इति न कोऽपि विरोधः । ___ ग्रन्थकृत् साम्प्रतमागमपरिभाषया समाधत्ते- सामान्यतस्तु = अपकर्षोत्कर्ष-प्राथम्याऽप्राथम्यप्रकृष्टतरत्वादिविशेषाऽनाश्रयणे तु ध्यानत्वाऽवच्छिन्ने क्षयोपशमभेदस्य = विपर्यास-निद्रादिविक्षेप-विस्रोतसिकादिपरिहारकृते ज्ञानावरण-दर्शनावरण-मोहनीयक्षयोपशमविशेषस्य समतात्वावच्छिन्ने च तदन्यस्य मोहनीयक्षयोपशमविशेषस्य एव हेतुत्वात् । ततश्च विलक्षणसामग्रीतः प्रथमं ध्यानस्य समताया वोत्पादे नोत्पत्तावन्योऽन्याऽऽश्रयाऽवकाशः। यदि प्रथमं ध्यानं जायते तर्हि तत् समतामाक्षिपति स्वस्थित्याद्युत्कर्षाधानार्थम् । यदि चादौ समतोपजायते तर्हि सा ध्यानमाक्षिपेत् स्वशुद्ध्याधुत्कर्षापग्रहार्थम् । इत्थञ्च विलक्षणसामग्रीतः स्वोत्पत्त्यनन्तरं तयोरपकृष्टयोर्मिथ उत्कृष्टयोर्हेतुताऽनाविलैवेति भावनीयमागममर्मज्ञैः ।।१८/२३।। પ્રત્યાઘાત અટકતા નથી. ધ્યાન વિના સમતા નથી. કેમ કે ધ્યાનશુ દશામાં વિષમતાની કે મમતાની સામગ્રી બળવાન હોય છે. આથી ધ્યાન અને સમતા એકબીજાનું કારણ હોવાના કારણે સતત ચાલુ રહે તેવા પ્રવાહવાળા બને છે. આવું માનવામાં અન્યોન્યાશ્રય દોષની સમસ્યા ઊભી થતી નથી. કારણ કે અપકૃષ્ટ = પ્રાથમિક કક્ષાવાળા ધ્યાન અને સમતા, ઉત્કૃષ્ટ કક્ષાની સમતા અને ધ્યાનનું કારણ બને છે. સામાન્યથી તો ચોક્કસ પ્રકારનો ક્ષયોપશમ જ તે બન્નેનું કારણ છે-એમ જાણવું. (૧૮/૨૩). વિશેષાર્થ :- ધ્યાનથી સમતા થાય અને સમતાથી ધ્યાન આવે – એવું માનવામાં બેમાંથી એકેયની १. हस्तादर्श 'अन्योन्यकारणाऽकारणात्' इत्यशुद्धः पाठो मूलानुसारेण । २. मुद्रितप्रतौ 'अप्रकृ...' इति पाठः । For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378