Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 347
________________ १२४० • योगादरे सति धर्मकर्मोपयोगस्थैर्य सिद्धिः • द्वात्रिंशिका-१८/१४ सलिलवज्ज्ञेयम् ।।" (षो.१४/४). ।।१३।। स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥१४॥ स्थितस्यैवेति । स्थितस्यैव = अप्रवृत्तस्यैव स क्लम उद्वेग उच्यते । प्रधानं भवति । एतच्च प्रणिधानं इह योगे प्रवरं = प्रधानं = फलाऽसाधारणकारणमित्यर्थः, कृषिकर्मणि = धान्यनिष्पत्तिफले सलिलवत् = जलवत् ज्ञेयम् - (षो.१४/४ यो.दी.) इति । खेदपरित्यागाय स्वोचितकर्तव्ये शारीरश्रमजन्यमनोदुःखप्रतिबन्धकारि चित्तैकाग्रताऽनुबन्धकारि स्वरसवाहि प्रेम कर्तव्यमित्युपदेशोऽत्र ध्वन्यते । तदुक्तं प्रेमगीतायां → सत्कर्तव्योपरि प्रेम कर्तव्यं शुद्धरागिभिः । यत्र प्रेम भवेत् तत्र चित्तैकाग्र्यं प्रजायते ।। - (प्रे.गी.५१२) इति । स्वकर्तव्यप्रेमसद्भावे तु चेतःप्रसादलाभेन शारीरिककष्टाऽननुभवात्सत्कर्तव्यगोचरोपयोगस्थैर्यमपि सुलभमेव । एतेन → प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ।। - (भ.गी.२/६५) इति भगवद्गीतावचनमपि व्याख्यातम् ।।१८/१३॥ क्रमप्राप्तमुद्वेगमाह- ‘स्थितस्यैवेति । ध्यानादियोगे अप्रवृत्तस्यैव ध्यानादिकर्तव्यतासमर्थकोपदेशश्रवणादिकालेऽपि ध्यानादियोगगोचराऽनुत्साहाऽनादरादिनाऽनुभूयमानः चित्तपरितापाऽनुबन्धी स क्लमः = प्रतिषेधसूचकशब्दोच्चार-हस्तसञ्चालन-नेत्र-वक्त्रविकारोच्छ्वास-निःश्वासाऽऽद्युत्थापितः कायिकः श्रम एव उद्वेग उच्यते । इदञ्च कार्ये कारणोपचाराऽऽश्रयेणोक्तम् । वस्तुतो ध्यानादियोगगतकष्टसाध्यता-दीर्घकालसाध्यतादिज्ञानोत्थापितमालस्यमेवोद्वेगलक्षणम् । ततश्च कदाचित्कायिकक्लमविरहेऽपि नाऽव्याप्तिः। तदुक्तं ग्रन्थकृतैव योगदीपिकायां → उद्वेगः = कष्टसाध्यताज्ञानजनितमालस्यम्, यद्वशात् कायखेदाऽभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमनुत्साहो जायते, कुर्वाणोऽपि ततो न सुखं लभते 6 (षोड.१४/३-यो.दी.) इति । उद्विग्नस्याऽशान्तत्वेन न क्रियाकरणं, व्यवहारतः क्रियाकरणेऽपि वा नाऽऽनन्दलाभ इह, न वा परत्र त्राणं इत्याशयः । तदुक्तं महाभारते आदिपर्वणि → नोद्विग्नश्चरते धर्मं नोद्विग्नश्चरते क्रियाम् + (म.भा.आदि.४१/२८) इति। तदुक्तं પ્રણિધાન થતું નથી. જેમ ખેતીની ક્રિયામાં પાણી મુખ્ય કારણ છે તેમ યોગસાધનામાં પ્રણિધાન મુખ્ય Mr. (१८/१२) વિશેષાર્થ :- ખેદ, ઉદ્વેગ વગેરે આઠ ચિત્તદોષનું વિસ્તૃત વિવેચન અમે ષોડશક ગ્રંથના અનુવાદમાં વિશેષાર્થ તરીકે કરેલ છે. તેથી દિવ્યદર્શન ટ્રસ્ટ તરફથી પ્રકાશિત થયેલ ષોડશક ભાગ-રના ૧૪માં ષોડશકના અનુવાદમાં ગાથા ૪ થી ૧૧ સુધીનો પૃષ્ઠ ૩૨૦ થી ૩૨૯માં રહેલો વિશેષાર્થ જોઈ લેવો. વ્યર્થ વિસ્તારના ભયથી અહીં તે વિશેષાર્થનું પુનરાવર્તન નથી કરતા. (૧૮/૧૩) છે ઉદ્વેગ દોષની સમજણ છે ગાથાર્થ - પ્રવૃત્તિ શરૂ કર્યા વિના જ કુલમ થાય તેને ઉગ જાણવો. તેથી યોગદ્વેષના લીધે ક્રિયા રાજાની વેઠ સમાન થાય છે. તેવી ક્રિયા ભવાંતરમાં યોગીના કુળમાં જન્મને અટકાવે છે. (૧૮/૧૪) ટીકાર્ય - આરાધની પ્રવૃત્તિનો પ્રારંભ કર્યા વિના જ ઉપરોક્ત બ્લમ થાય તેને ઉગ જાણવો. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378