Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• नीरसस्य धर्मकरणनिषेधः •
१२४१ ततः = तस्मादनादरजनिताद् योगद्वेषात् क्रिया = 'पारवश्यादिनिमित्ता प्रवृत्तिः राजविष्टिसमा = नृपनियुक्ताऽनुष्ठानतुल्या । योगिनां = श्रीमतां श्राद्धानां कुले जन्म बाधते = प्रतिबध्नाति, अनादरेण योगक्रियाया योगिकुलजन्मबाधकत्वनियमात् । •तदुक्तं- "उद्वेगे विद्वेषाद् विष्टिसमं करणमस्य पापेन ।
योगिकुलजन्मबाधकमलमेतत्तद्विदामिष्टम् ।।" (षो. १४/५). ।।१४।। भ्रमोऽन्तर्विप्लवस्तत्र न कृताऽकृतवासना। तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् ।।१५।। तत्रैव वनपर्वणि → उद्विग्नस्य कुतः शान्तिः? अशान्तस्य कुतः सुखम् ? - (म.भा.वनपर्व-२३३/ १३) इति । यथोक्तं उपमितिभवप्रपञ्चायां च कथायां → नाऽनादरमात्रविहितमनुष्ठानमात्रं तत्र त्राणम् 6 (उप.भ.पीठबन्ध-पृ.४३) इति ।
नन्वेवं योगाऽनादरे तु तद्द्वेषस्यैवोत्पत्तेर्न तत्प्रवृत्तिः स्यादित्याशङ्कायामाह- अनादरजनिताद् योगद्वेषात् पारवश्यादिनिमित्ता कथञ्चित् प्रवृत्तिः = योगप्रवृत्तिः सम्भवत्येव, आर्द्रकुमार-जम्बूकुमार-मेतार्यमुन्यादीनां पूर्वभवे चारित्रक्रियायाः तथैव दृष्टत्वात् । किन्तु इयं प्रवृत्तिः नृपनियुक्ताऽनुष्ठानतुल्या सती श्रीमतां श्राद्धानां कुले = वंशे जन्म प्रतिबध्नाति । आर्द्रकुमारादिषु तथैव प्रसिद्धत्वात् । अत एव अक्ष्युपनिषदि → योगस्थः कुरु कर्माणि नीरसो वाऽथ मा कुरु - (अक्षी. खण्ड २/श्लोक ३) इत्युक्तम् । ___ तदुक्तं षोडशके 'उद्वेग' इति । अस्य योगदीपिकाव्याख्या एवम् → उद्वेगे चित्तदोषे जाते विद्वेषात् योगविषयाद् अस्य = योगस्य कथञ्चित् करणं विष्टिसमं = राजविष्टिकल्पं पापेन = दासप्रायत्वहेतुभावेन एतच्च = एवंविधं कारणं योगिनां कुले यज्जन्म तस्य बाधकम्, उद्विग्नक्रियाक; योगिकुलजन्माऽपि जन्मान्तरे न लभ्येत इति कृत्वा अलं = अत्यर्थं तद्विदां = योगविदां इष्टं = अभिमतम् 6 (षोड.१४/५ वृ.) इति ।।१८/१४।। તેથી અનાદરજન્ય યોગસાધનાવિષયક દ્વેષના કારણે પરવશતા વગેરે નિમિત્તે થતી યોગસાધનાની પ્રવૃત્તિ ખરેખર રાજાએ નિમેલા માણસની ક્રિયાની જેમ વેઠ વાળવા રૂપ થાય છે.
તેવી વેઠતુલ્ય યોગ પ્રવૃત્તિ ભવાંતરમાં શ્રીમંત અને શ્રદ્ધાસંપન્ન આરાધકોના કુળમાં મળતા જન્મનો प्रतिरोध ४३ छ - आपो नियम छे.
ષોડશક ગ્રંથમાં જણાવેલ છે કે – “ઉગ દોષ હોય ત્યારે પાપના લીધે દ્વેષ થવાના કારણે જીવ યોગસાધનાને વેઠની જેમ કરે છે. આ રીતે યોગસાધના કરવી તે યોગીના કુળમાં જન્મ થવામાં બાધક बने छ. - मे तेन रोनुं भंतव्य छ.' 6 (१८/१४)
હ ભ્રમ દોષનું પ્રતિપાદન છે ગાથાર્થ :- ભ્રમ એટલે આંતરિક વિપર્યય. તે હોય ત્યારે “આ મેં કર્યું અથવા નથી કર્યું તેવા સંસ્કાર નથી હોતા. તથા તેવા સંસ્કાર વિના આરાધના કરવી તે પ્રસ્તુત વિષયમાં વિરોધ કરનાર થાય છે.(૧૪/૧૫)
१. हस्तादर्श 'पारवशा...' इत्यशुद्धः पाठः । ..... चिह्नद्वमध्यवर्ती पाठो हस्तादर्श नास्ति । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378