Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 350
________________ • प्रशान्तवाहिताशून्यकरणं फलशून्यम् • १२४३ प्रशान्तेति । प्रशान्तवाहितायाः = प्रशमैकवृत्तिसन्तानस्य अभावो मनःप्रभृतीनामुद्रकान्मदाऽवष्टब्धपुरुषवद् उत्थानं उच्यते । ततः करणं योगस्य त्यागाऽनुरूपं = परिहारोचितं, प्रशान्तवाहिताऽभावदोषात् । अत्यागं = न विद्यते त्यागो यस्य तत्तथा, कथञ्चिदुपादेयत्वात् । निर्वेदाद् = एकवृत्तिभङ्गलक्षणात् खेदात् न विद्यते तथा = योगकरणोचितत्वेन उदयो = भाविकालविपाको यत्र तत्तथा (अतथोदयम्) । क्रमप्राप्तमुत्थानमाह- 'प्रशान्ते'ति । प्रशान्तवाहितायाः = प्रशमैकवृत्तिसन्तानस्य = विशुद्धचित्तसंस्कारप्रवाहस्य अभावः। अष्टकवृत्तिकृन्मते स्वपरोपकारकरणधर्मा प्रशान्तवाहिता (अ.प्र.७/१ वृत्ति)। ललितविस्तरापञ्जिकायां श्रीमुनिचन्द्रसूरयस्तु → प्रशान्तः = रागादिक्षय-क्षयोपशमोपशमवान्, वहति = वर्तते, तच्छीलश्च यः स तथा तद्भावस्तत्ता 6 (ल.वि.पं.पृ.११७) इत्याहुः । → ‘सा ह्यवृत्तिकस्य चित्तस्य निरिन्धनाऽग्निवत् प्रतिलोमपरिणामेनोपशमः' - (शा.वा.स.१/२१) इत्येवं स्याद्वादकल्पलतायां पातञ्जलप्रक्रियोपदर्शनाऽवसरे प्रकृतग्रन्थकृतैवोक्तम् । 'प्रशान्तवाहिता = निरोधजसंस्कारजा वृत्तिमयस्य चित्तस्य परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता' (न्या.खं.खा.कल्प.गा.२२/पृ.२५१) इति महावीरस्तवकल्पलतिकाकृत् । वाचस्पतिमिश्रस्तु तत्त्ववैशारद्यां → व्युत्थानसंस्कारमलरहित-निरोधसंस्कारपरम्परामात्रवाहिता = प्रशान्तवाहिता - (यो.सू.३/१० पृ.२८८) इत्याचष्टे । → 'प्रशान्तवाहिता = निश्चलनिरोधधारया वहनं ८ (यो.सू.३/१० वा.) इति योगवार्तिके विज्ञानभिक्षुः। → परिहृतविक्षेपतया सदृशपरिणामप्रवाहः = प्रशान्तवाहिता - (यो.सू.३/१० रा.मा.पृ.१२३) इति राजमार्तण्डे भोजः । → प्रशान्तवाहिता = निश्चलप्रवाहः + (यो.सू.३/१० भावा.) इति भावागणेशः । नागोजीभट्टस्तु → प्रशान्तवाहिता = व्युत्थानसंस्काररहितचिरकालवाहिता 6 (ना.भ.३/१०) इत्याह । ततः = प्रशान्तवाहिताऽभावात् योगस्य ध्यानादेः करणं तत्त्वतः परिहारोचितं, प्रशान्तवाहिताऽभावदोषात् । व्यवहारतश्च न विद्यते त्यागो यस्य तत् तथा, कथञ्चिद् = निजदोषगर्हा-परगुणप्रशंसादिपरिणत्याद्यपेक्षया श्रीसङ्घसहाय-जिनशासनरक्षा-प्रभावना-श्रुतसर्जन-रक्षण-तीर्थरक्षादिकार्यकौशलाद्यपेक्षया वा उपादेयत्वात् । नन्वेवमपि योगफलमुत्पत्स्यत इत्याशङ्कायामाह- एकवृत्तिभङ्गलक्षणात् = सदृशचित्तवृत्तिप्रवाहव्याघातात्मकात् खेदात् हेतोः न विद्यते योगकरणोचितत्वेन = ध्यान-स्वाध्यायादियोगसमाचरणयोग्यरूपेण भाविकालविपाकः = अनागतकालीनपरिपाको यत्र तत्तथा = अतथोदयम् । ટીકાર્ય :- કેવળ પ્રશાંતવૃત્તિની પરંપરા ચાલવી તે પ્રશાંતવાહિતા કહેવાય છે. મન વગેરેના ઉદ્રકથી તે ટકતી નથી. મદથી ઘેરાયેલા માણસની જેમ આ વાત સમજવી. ઉત્થાન દોષથી થતી યોગસાધના ત્યાગને યોગ્ય છે. કારણ કે પ્રશાંતવાહિતાનો અભાવ ત્યારે હાજર છે. તેમ છતાં કથંચિત ઉપાદેય હોવાના કારણે તેનો ત્યાગ પણ થતો નથી. આ રીતે સાધના કરવાથી સાધનામાં ચિત્તની એકસરખી વૃત્તિ રહેતી નથી. સાધનામાં ચિત્તની તન્મયતા ભાંગી જાય છે. તે નિર્વેદ કહેવાય છે. તેને ખેદ પણ કહી શકાય છે. આમ ખેદથી સાધના કરવાના લીધે યોગસાધનાને અનુરૂપ જે ફળ ભાવિકાળમાં વિપાકરૂપે ઉદયમાં આવવું જોઇએ તે આવતું નથી. તે યોગ પ્રવૃત્તિ યોગસાધનાને ઉચિત ફળને આપનારી બનતી નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378