Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 344
________________ = • = ध्यानानुशास्तिः उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं सहितम् ।।११।। वर्तते । तदुक्तं योगबिन्दी → शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माऽऽभोगसमन्वितम् ।। ← (यो.बिं.३६२ ) इति । यथोक्तं आवश्यकनिर्युक्तौ अपि चित्तस्सेग गया हवइ झाणं ← ( आ.नि. १४५९) इति । ध्यानं एकालम्बने मनःस्थैर्यम् ← (वि.आ.भा.२४०४वृ.) इति, → प्रशस्तध्यानं प्रशस्तं मनः ← (वि. आ. भा. १२५५ वृ.) इति च विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरयः । → ध्यानं = आलम्बनस्थैर्यम् ← (वि. आ. भा. २९०४वृ.) इति विशेषावश्यकभाष्यवृत्ती कोट्याचार्याः । स्व-परतन्त्रानुसारेण नानाविधा ध्यानव्याख्या चास्मत्कृतकल्याणकन्दलीतोऽवसेया ( षोड. १२/१४) । प्रकृते च ओयं चित्तं समादाय झाणं समुपज्जइ ← (द.श्रु. ५।१) इति दशाश्रुतस्कन्धवचनं, उत्साहपरतया निद्राद्यपनयनप्रतिपादकं निद्दं तन्दिं विजम्भितं अरतिं भत्तसम्मदं । वीरियेन नं पणामेत्वा अरियमग्गो विसुज्झति ।। ← ( सं . नि. १ । १ । १६ ) इति संयुत्तनिकायवचनं, → जं किंचिवि चिंतंतो गिरीहवित्ती हवे जदा साहू । लद्धूण य एयत्तं तहादु तं तस्स णिच्छयं झाणं ।। ← (बृ. प्र. सं. ५५ ) इति च बृहद्रव्यसङ्ग्रहवचनमप्यवधातव्यम् । एवमेव → मा मुज्झह मा रज्जह मा दूसह इट्ठऽट्ठि अट्ठेसु । थिरमिच्छहि जइ चित्तं विचित्तज्झाणप्पसिद्धीए ।। ← (बृ.प्र.सं.४८) इति बृहद्द्रव्यसङ्ग्रहानुशास्तिरपि ध्यानार्थिनाऽङ्गीकर्तव्या, यतो भावनायां मृदु अव्यक्तं अनवस्थितं वा वर्तमानं चित्तं ध्यानं न भवति । यथोक्तं आवश्यकनिर्युक्तौ गाढाऽऽ लंबणलग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मुउअमवत्तं भमंतं वा ।। ← ( आ.नि. १४८३) इति । बृहत्कल्पभाष्ये अपि अज्झवसाओ उ दढो झाणं ← (बृ. क. भा. १६४०) इत्युक्तम् । राजवार्तिके अपि → अनित्यादिविषयचिन्तनं यदा ज्ञानं तदा अनुप्रेक्षाव्यपदेशो भवति । यदा तत्रैकाग्रचिन्तानिरोधः तदा धर्मध्यानम् ← (तत्त्वार्थ. ९ / ३१ रा.वा.) इत्युक्तम् । बौद्धानां तु सच्चित्तैकाग्र्यं समाधित्वेनाऽभिप्रेतम् । तदुक्तं विसुद्धिमग्गे कुसलचित्तेकग्गता समाधि ← (वि.म.३/२) इत्यवधेयम् । पारमार्थिकध्यानाधिकारित्वन्तु यथावस्थितसूत्राद्यभ्यासोत्तरकालमेव, कालेण य अहिज्जिज्जा, तओ झाइज्ज एगगो ← (उत्त. १/१० ) इति उत्तराध्ययनसूत्रप्रामाण्यादिति । तदुक्तं रत्नसारे अपि णाणेण झाणसिद्धी ← (र. सा. १५७ ) इति । ध्यानक्रमस्तु → जह व णिरुद्धं असुहं सुहेण, सुहमवि तहेव सुद्धेण । तम्हा एएण कमेण य जोइ झाएउ णियआदं ।। ← ( न च . ३४८) इत्येवं नयचक्रदर्शितरीत्याऽवसेयः । ध्यानाऽऽरम्भेऽपि = १२३७ = વિશેષાર્થ :- વિષયાન્તરની પ્રવૃત્તિ કરનાર, અન્ય અપ્રસ્તુત પદાર્થમાં પ્રવૃત્ત થનાર પ્રત્યય = બોધ વાસ્તવમાં ધારાવાહી સ્થિર ઉપયોગમાં ભંગાણ પાડે છે. ખ્યાલમાં ન આવે એટલા સૂક્ષ્મ સમયનું પણ આંતરું ન પડે તે રીતે પ્રશસ્ત આલંબનમાં સતત ઉપયોગ-બોધ ટકી રહેવો જોઇએ. આવો શુભ એકાગ્ર ઉપયોગ પ્રસ્તુતમાં ધ્યાન કહેવાય છે. આ ધ્યાનમાં ચિત્તની મૂઢતા નથી હોતી પણ સૂક્ષ્મ ઉપયોગની જાગ્રતતા હોય છે. ઉત્પાદવ્યય-ધ્રૌવ્ય વગેરે વિષયોની સૂક્ષ્મતમ ઉપયોગધારા ધ્યાનમાં અવિરતપણે ચાલુ હોય છે.(૧૮/૧૧) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378