Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 342
________________ • आत्मभावनाप्रकाशनम् • १२३५ झटित्युपस्थितिहेतोः संस्कारस्य कारणं (= दृढसंस्कारकारणम्), भावनाया एव दृढस्य पटुतरभावनाजनकत्वनियमात् ।। १० ।। = यद्वा → आदा खु मज्झ णाणे, आदा मे दंसणे चरिते य । आदा पच्चक्खाणे आदा मे संवरे जोगे ।। एगो मे सस्सदो अप्पा णाण - दंसणलक्खणो । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ।। भावेह भावसुद्धं अप्पाणं सुविसुद्धणिम्मलं चेव । लहु चउगइ चइऊणं जइ इच्छसि सासयं सुक्खं ।। ← (भा.प्रा.५८,५९,६०) इति भावप्राभृते दर्शिता आत्मभावनाऽपि भूमिकाभेदेनाऽत्र योज्या द्रव्यार्थिकनयप्राधान्याऽवलम्बिभिः । आतुरप्रत्याख्यानप्रकीर्णके महाप्रत्याख्यानप्रकीर्णके अपि च एकोहं नत्थि मे कोइ, न याहमवि कस्सई । एवं अदीणमणसो अत्ताणमणुसासए ।। (आ.प्र.२८, म. १३) एगो मे सासओ अप्पा नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ।। (आ.प्र. २९, म.प्र. १६, आराधनाप्रकरण६७) ← इत्येवमात्मभावना दर्शितेत्यवधेयम् । प्रायः सर्वा अपि इमा भावना बौद्धपरिभाषाऽनुसारेण ( अभिधर्मकोशभाष्य - ७/२७) द्वेधा ( १ ) विभावनभावना (२) संवरभावना चेति । ज्ञपरिज्ञास्थानीया प्रथमा, प्रत्याख्यानपरिज्ञोपमा च द्वितीयेति यथागममनुयोज्यं स्वपरतन्त्रपरमार्थविभावननिपुणैः । इयं च स्वभ्यस्ता भावना भवान्तरेऽपि झटित्युपस्थितिहेतोः संस्कारस्य दिवसाभ्यस्ताध्ययनादिकं तथाविधस्वप्नदर्शनस्येव कारणं भवति । तदुक्तं वीरभद्रसूरिभिः आराधनापताकायां जह खलु दिवसऽब्भत्थं रयणीए सुमिणयम्मि पिच्छंति । तह इह जम्म भत्थं सेवंति भवंतरे जीवा ।। ← (आ.पता.९८१) इति । योगशास्त्रेऽपि जन्मान्तरसंस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि ।। ← (यो . शा. १२/१३ ) इति । प्रकृतेऽवधारणमाह- भावनाया एव स्वभ्यस्तायाः पटुतरभावनाजनकत्वनियमात् = उदग्रतरज्ञानादिभावनाहेतुत्वनियमात् । तदुक्तं योगकुण्डल्युपनिषदि यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ।। ← (यो.कुं. ३/१४-१५) इति पूर्वोक्तं (पृ.७५५) अनुसन्धेयमत्र । एतेन जं अब्भसेइ जीवो गुणं च दोसं च इत्थ जम्मम्मि । तं परलोए पावई अब्भासेणं पुणो तेणं ।। ← (गुणानु.८) इति गुणानुरागकुलके जिनहर्षगणिवचनमपि व्याख्यातम् । पूर्वोक्तं (पृ.११७२) → पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते ← (यो . शिखो. १/१४३) इति योगशिखोपनिषद्वचनमप्यऽत्रानुसन्धेयमनेकान्तवादमवलम्ब्य । भावनायोगस्तु भवार्णवनिस्तारकत्वाद् यानपात्रमुच्यते । तदुक्तं सूत्रकृताङ्गे → भावणाजोगसुद्धा जले णावा व आहिया ← (सू. १।१५ ।५ ) इति । ज्ञानभावनाफलं सारसमुच्चये ज्ञानभावनया ઝડપથી સ્મૃતિ થવાનું કારણ બને તેવા સંસ્કાર દૃઢ કહેવાય છે. આવા દૃઢ સંસ્કારનું કારણ ભાવના છે. કારણ કે ભાવના જ અત્યંત બળવાન - સ્ફુર્તિમંત એવી ભાવનાની જનક છે. આવો नियम छे. (१८ / १०) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378