________________
• आत्मभावनाप्रकाशनम् •
१२३५
झटित्युपस्थितिहेतोः संस्कारस्य कारणं (= दृढसंस्कारकारणम्), भावनाया एव
दृढस्य पटुतरभावनाजनकत्वनियमात् ।। १० ।।
=
यद्वा →
आदा खु मज्झ णाणे, आदा मे दंसणे चरिते य । आदा पच्चक्खाणे आदा मे संवरे जोगे ।। एगो मे सस्सदो अप्पा णाण - दंसणलक्खणो । सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ।। भावेह भावसुद्धं अप्पाणं सुविसुद्धणिम्मलं चेव । लहु चउगइ चइऊणं जइ इच्छसि सासयं सुक्खं ।। ← (भा.प्रा.५८,५९,६०) इति भावप्राभृते दर्शिता आत्मभावनाऽपि भूमिकाभेदेनाऽत्र योज्या द्रव्यार्थिकनयप्राधान्याऽवलम्बिभिः ।
आतुरप्रत्याख्यानप्रकीर्णके महाप्रत्याख्यानप्रकीर्णके अपि च एकोहं नत्थि मे कोइ, न याहमवि कस्सई । एवं अदीणमणसो अत्ताणमणुसासए ।। (आ.प्र.२८, म. १३) एगो मे सासओ अप्पा नाणदंसणसंजुओ । सेसा मे बाहिरा भावा सव्वे संजोगलक्खणा ।। (आ.प्र. २९, म.प्र. १६, आराधनाप्रकरण६७) ← इत्येवमात्मभावना दर्शितेत्यवधेयम् ।
प्रायः सर्वा अपि इमा भावना बौद्धपरिभाषाऽनुसारेण ( अभिधर्मकोशभाष्य - ७/२७) द्वेधा ( १ ) विभावनभावना (२) संवरभावना चेति । ज्ञपरिज्ञास्थानीया प्रथमा, प्रत्याख्यानपरिज्ञोपमा च द्वितीयेति यथागममनुयोज्यं स्वपरतन्त्रपरमार्थविभावननिपुणैः ।
इयं च स्वभ्यस्ता भावना भवान्तरेऽपि झटित्युपस्थितिहेतोः संस्कारस्य दिवसाभ्यस्ताध्ययनादिकं तथाविधस्वप्नदर्शनस्येव कारणं भवति । तदुक्तं वीरभद्रसूरिभिः आराधनापताकायां जह खलु दिवसऽब्भत्थं रयणीए सुमिणयम्मि पिच्छंति । तह इह जम्म भत्थं सेवंति भवंतरे जीवा ।। ← (आ.पता.९८१) इति । योगशास्त्रेऽपि जन्मान्तरसंस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवन्निरुपदेशमपि ।। ← (यो . शा. १२/१३ ) इति ।
प्रकृतेऽवधारणमाह- भावनाया एव स्वभ्यस्तायाः पटुतरभावनाजनकत्वनियमात् = उदग्रतरज्ञानादिभावनाहेतुत्वनियमात् । तदुक्तं योगकुण्डल्युपनिषदि यथाऽग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना । विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि ।। ← (यो.कुं. ३/१४-१५) इति पूर्वोक्तं (पृ.७५५) अनुसन्धेयमत्र । एतेन जं अब्भसेइ जीवो गुणं च दोसं च इत्थ जम्मम्मि । तं परलोए पावई अब्भासेणं पुणो तेणं ।। ← (गुणानु.८) इति गुणानुरागकुलके जिनहर्षगणिवचनमपि व्याख्यातम् । पूर्वोक्तं (पृ.११७२) → पूर्वजन्मकृताऽभ्यासात् सत्वरं फलमश्नुते ← (यो . शिखो. १/१४३) इति योगशिखोपनिषद्वचनमप्यऽत्रानुसन्धेयमनेकान्तवादमवलम्ब्य ।
भावनायोगस्तु भवार्णवनिस्तारकत्वाद् यानपात्रमुच्यते । तदुक्तं सूत्रकृताङ्गे → भावणाजोगसुद्धा जले णावा व आहिया ← (सू. १।१५ ।५ ) इति । ज्ञानभावनाफलं सारसमुच्चये ज्ञानभावनया
ઝડપથી સ્મૃતિ થવાનું કારણ બને તેવા સંસ્કાર દૃઢ કહેવાય છે. આવા દૃઢ સંસ્કારનું કારણ ભાવના છે. કારણ કે ભાવના જ અત્યંત બળવાન - સ્ફુર્તિમંત એવી ભાવનાની જનક છે. આવો नियम छे. (१८ / १०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org