________________
१२३६
• श्रुतादिभावनाफलविवरणम्
द्वात्रिंशिका - १८/११ उपयोगे विजातीयप्रत्ययाऽव्यवधानभाक्' । शुभैकप्रत्ययो ध्यानं सूक्ष्माऽऽभोगसमन्वितम् । ।११ । ।
=
उपयोग इति । उपयोगे = स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने ( विजातीयप्रत्ययाऽव्यवधानभाक् =) विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारेणालक्ष्यकालेनाऽपि अव्यवधानभाग् अनन्तरितः शुभैकप्रत्ययः = प्रशस्तैकाऽर्थबोधो ध्यानं उच्यते । (सूक्ष्माभोगसमन्वितं = ) सूक्ष्माऽऽभोगेन जीवो लभते हितमात्मनः । विनयाचारसम्पन्नो विषयेषु पराङ्मुखः । । ← (सा.स. ४) इत्येवमुपवर्णितं कुलभद्रसूरिभिः । यच्च श्रुतभावनाफलं बृहत्कल्पभाष्ये →
एगग्गया सुमह निज्जरा य नेव मिणणम्मि पलिमंथो । न पराहीणं नाणं काले जह मंसचक्खूणं । । सुयभावणाए नाणं दंसण-तव-संजमं च परिणमइ । तो उवओगपरिण्णो सुयमव्वहितो र समाणेइ ।।
← (बृ.क.भा.१३४३-१३४४) इत्येवमुपवर्णितं तच्च यथासम्भवं यथागमञ्चाऽत्राऽनुसन्धेयम् । त्रिलोकप्रज्ञप्ती अपि दणाणभावणाए णाणमत्तंडकिरणउज्जोओ । आदं चंदुज्जलं चरित्तं चित्तं हवेदि भव्वाणं ।। ← (त्रि.प्र. महाधि. १/५०) इत्युक्तम् । एवं जह जह दढप्पइण्णो समणो वेरग्गभावणं कुइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ ।। ← ( म. वि. ६३७) इति मरणविभक्तिप्रकीर्णकवचनमप्यनुसन्धेयम् । एवं भावेहि अणुवेक्खाओ अवरे पणवीस भावणा भावि । भावरहिएण किं पुण बाहिरलिंगेण कायव्वं ।। ← (भा.प्रा. ९६ ) इति, जाव ण भावइ तच्चं, जाव ण चिंतेइ चिंतणीयाई । ताव ण पावइ जीवो जर मरणविवज्जियं ठाणं ।। ← (भा.प्रा. ११५) इति च भावप्राभृतवचनमप्यवधेयम् ।।१८/१० ।।
=
क्रमाऽऽयातं ध्यानमुपव्याख्यानयति- 'उपयोग' इति । स्थिरप्रदीपसदृशे = निवातगृहोदरज्वलत्प्रदीपप्रतिभे धारालग्ने अविच्छिन्नप्रवाहाऽऽपन्ने ज्ञाने विशुद्धे तद्विच्छेदकारिणा = एकाकारोपयोगव्यवधाननिमित्तेन विषयान्तरसञ्चारेण = विषयान्तरगोचरवृत्त्यन्तरगमनेन अलक्ष्यकालेनाऽपि = सामान्यतः छद्मस्थजीवाऽनवसेयेन स्वल्पक्षणेनाऽपि अनन्तरितः अव्यवहितः प्रशस्तैकार्थबोध: विषयतासम्बन्धेन शस्तैकालम्बनस्थः परिच्छेदस्तु ध्यानमुच्यते । एतच्च वक्ष्यमाणाऽसम्प्रज्ञातसमाधिपूर्वकालीनत्वात् उत्पातादिविषयसूक्ष्माऽऽ लोचनेन उत्पाद-व्यय-ध्रौव्य-व्यञ्जनपर्यायाऽर्थपर्यायादिगोचराऽतिसूक्ष्मविमर्शेन सहितं
=
=
•
=
=
विशेषार्थ ::- ભાવના સંસ્કાર દ્વારા અન્ય ભાવનાનું કારણ બને છે. જો ભાવના દ્વારા ઉત્પન્ન થયેલા સંસ્કાર દૃઢ ન હોય, જલ્દીથી સ્મૃતિનું કારણ ન બને તો તે નવી ભાવનાને ઉત્પન્ન કરી ન શકે. માટે ભાવના દેઢ સંસ્કારનું કારણ છે- એમ નિશ્ચિત થાય છે. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૧૮/૧૦) ધ્યાનનું સ્વરૂપ આ
#
ગાથાર્થ :- ઉપયોગમાં વિજાતીય પ્રત્યયનું વ્યવધાન ન પડે તેવો પ્રશસ્ત એકવિષયક બોધ ધ્યાન કહેવાય છે. તે સૂક્ષ્મ ઉપયોગયુક્ત હોય છે. (૧૮/૧૧)
ટીકાર્થ :- સ્થિર દીવા જેવા ધારાવાહી જ્ઞાનોપયોગમાં ભંગાણ પાડનાર તથા અન્યવિષયક પ્રવૃત્તિ કરનાર એવા પ્રત્યયના લીધે સૂક્ષ્મ કાળથી પણ આંતરુ ન પડે તેવો પ્રશસ્ત અને એકવિષયક બોધ ધ્યાન કહેવાય છે. આ ધ્યાન ́ ઉત્પાદ, વ્યય વગેરે સૂક્ષ્મ વિચારણાથી યુક્ત હોય છે. १. हस्तादर्शे ‘...धानयुक्' इति पाठः । स चार्थतः शुद्धोऽपि व्याख्यानुसारेणाऽशुद्धः । २. 'अव्वहितो
Jain Education International
For Private & Personal Use Only
=
(૧૮/૧૧)
अव्यथितः ' www.jainelibrary.org