________________
=
•
=
ध्यानानुशास्तिः
उत्पातादिविषयसूक्ष्माऽऽलोचनेन समन्वितं
सहितम् ।।११।।
वर्तते । तदुक्तं योगबिन्दी → शुभैकालम्बनं चित्तं ध्यानमाहुर्मनीषिणः । स्थिरप्रदीपसदृशं सूक्ष्माऽऽभोगसमन्वितम् ।। ← (यो.बिं.३६२ ) इति । यथोक्तं आवश्यकनिर्युक्तौ अपि चित्तस्सेग गया हवइ झाणं ← ( आ.नि. १४५९) इति । ध्यानं एकालम्बने मनःस्थैर्यम् ← (वि.आ.भा.२४०४वृ.) इति, → प्रशस्तध्यानं प्रशस्तं मनः ← (वि. आ. भा. १२५५ वृ.) इति च विशेषावश्यकभाष्यवृत्ती श्रीहेमचन्द्रसूरयः । → ध्यानं = आलम्बनस्थैर्यम् ← (वि. आ. भा. २९०४वृ.) इति विशेषावश्यकभाष्यवृत्ती कोट्याचार्याः । स्व-परतन्त्रानुसारेण नानाविधा ध्यानव्याख्या चास्मत्कृतकल्याणकन्दलीतोऽवसेया ( षोड. १२/१४) ।
प्रकृते च ओयं चित्तं समादाय झाणं समुपज्जइ ← (द.श्रु. ५।१) इति दशाश्रुतस्कन्धवचनं, उत्साहपरतया निद्राद्यपनयनप्रतिपादकं निद्दं तन्दिं विजम्भितं अरतिं भत्तसम्मदं । वीरियेन नं पणामेत्वा अरियमग्गो विसुज्झति ।। ← ( सं . नि. १ । १ । १६ ) इति संयुत्तनिकायवचनं, → जं किंचिवि चिंतंतो गिरीहवित्ती हवे जदा साहू । लद्धूण य एयत्तं तहादु तं तस्स णिच्छयं झाणं ।। ← (बृ. प्र. सं. ५५ ) इति च बृहद्रव्यसङ्ग्रहवचनमप्यवधातव्यम् ।
एवमेव → मा मुज्झह मा रज्जह मा दूसह इट्ठऽट्ठि अट्ठेसु । थिरमिच्छहि जइ चित्तं विचित्तज्झाणप्पसिद्धीए ।। ← (बृ.प्र.सं.४८) इति बृहद्द्रव्यसङ्ग्रहानुशास्तिरपि ध्यानार्थिनाऽङ्गीकर्तव्या, यतो भावनायां मृदु अव्यक्तं अनवस्थितं वा वर्तमानं चित्तं ध्यानं न भवति । यथोक्तं आवश्यकनिर्युक्तौ गाढाऽऽ लंबणलग्गं चित्तं वृत्तं निरेयणं झाणं । सेसं न होइ झाणं मुउअमवत्तं भमंतं वा ।। ← ( आ.नि. १४८३) इति । बृहत्कल्पभाष्ये अपि अज्झवसाओ उ दढो झाणं ← (बृ. क. भा. १६४०) इत्युक्तम् । राजवार्तिके अपि → अनित्यादिविषयचिन्तनं यदा ज्ञानं तदा अनुप्रेक्षाव्यपदेशो भवति । यदा तत्रैकाग्रचिन्तानिरोधः तदा धर्मध्यानम् ← (तत्त्वार्थ. ९ / ३१ रा.वा.) इत्युक्तम् ।
बौद्धानां तु सच्चित्तैकाग्र्यं समाधित्वेनाऽभिप्रेतम् । तदुक्तं विसुद्धिमग्गे कुसलचित्तेकग्गता समाधि ← (वि.म.३/२) इत्यवधेयम् । पारमार्थिकध्यानाधिकारित्वन्तु यथावस्थितसूत्राद्यभ्यासोत्तरकालमेव, कालेण य अहिज्जिज्जा, तओ झाइज्ज एगगो ← (उत्त. १/१० ) इति उत्तराध्ययनसूत्रप्रामाण्यादिति । तदुक्तं रत्नसारे अपि णाणेण झाणसिद्धी ← (र. सा. १५७ ) इति ।
ध्यानक्रमस्तु → जह व णिरुद्धं असुहं सुहेण, सुहमवि तहेव सुद्धेण । तम्हा एएण कमेण य जोइ झाएउ णियआदं ।। ← ( न च . ३४८) इत्येवं नयचक्रदर्शितरीत्याऽवसेयः । ध्यानाऽऽरम्भेऽपि
=
१२३७
=
વિશેષાર્થ :- વિષયાન્તરની પ્રવૃત્તિ કરનાર, અન્ય અપ્રસ્તુત પદાર્થમાં પ્રવૃત્ત થનાર પ્રત્યય = બોધ વાસ્તવમાં ધારાવાહી સ્થિર ઉપયોગમાં ભંગાણ પાડે છે. ખ્યાલમાં ન આવે એટલા સૂક્ષ્મ સમયનું પણ આંતરું ન પડે તે રીતે પ્રશસ્ત આલંબનમાં સતત ઉપયોગ-બોધ ટકી રહેવો જોઇએ. આવો શુભ એકાગ્ર ઉપયોગ પ્રસ્તુતમાં ધ્યાન કહેવાય છે. આ ધ્યાનમાં ચિત્તની મૂઢતા નથી હોતી પણ સૂક્ષ્મ ઉપયોગની જાગ્રતતા હોય છે. ઉત્પાદવ્યય-ધ્રૌવ્ય વગેરે વિષયોની સૂક્ષ્મતમ ઉપયોગધારા ધ્યાનમાં અવિરતપણે ચાલુ હોય છે.(૧૮/૧૧)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org