Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 341
________________ १२३४ • नानाविधभावनास्वरूपविवेचनम् • द्वात्रिंशिका-१८/१० ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः । इष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ।।१०।। ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेन (ज्ञान-दर्शन-चारित्र-तपो-वैराग्यभेदतः) आवश्यकभाष्यादिप्रसिद्धा पञ्चधेष्यते ।। भावनाभेदमाह- 'ज्ञाने'ति । यद्यपि वक्ष्यमाणध्यानसिद्धये ध्यानशतके → पुव्वकयब्भासो भावणाहि झाणस्स जोग्गयमुवेइ । ताओ य नाण-दंसण-चरित्त-वेरग्गजणियाओ ।। णाणे णिच्चब्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो झाइ सुनिच्चलमईओ।। संकाइदोसरहिओ पसमज्जाइगुणगणोवेओ । होइ असंमूढमणो दंसणसुद्धीए झाणंमि ।। नवकम्माऽणायाणं पोराणविणिज्जरं सुभायाणं । चारित्तभावणाए झाणमयत्तेण य समेइ ।। सुविदियजगस्सहावो निस्संगो निभओ निरासो य। वेरग्गभावियमणो झाणमि सुनिच्चलो होइ ।। - (ध्या.श.३०,३१,३२,३३,३४) इत्येवं चतस्रो भावनाः प्रोक्ताः, अध्यात्मसारे ग्रन्थकृताऽपि → ज्ञात्वा धर्म्यं ततो ध्यायेच्चतस्रस्तत्र भावनाः । ज्ञान-दर्शन-चारित्र-वैराग्याख्याः प्रकीर्तिताः ।। ( (अ.सा. १६/१९) इत्येवं चतस्रो भावना दर्शितास्तथापि → तवप्पहाणं चरियं च उत्तमं 6 (उत्त. १९/९८) इति उत्तराध्ययनसूत्रोक्त्या चारित्रोत्कर्षकत्वेन तपसोऽप्याऽऽसेव्यमानस्य ध्यानाऽनुकूलत्वाद् भावनात्वं न व्याहन्यत इति ध्येयम् । ___ सद्ध्यानाऽनुकूलतया उपलक्षणात् आवश्यकसमहणिगाथा(प्रति.अ.पणवीसाए भावणाहिं)प्रवचनसारोद्धार (प्र.सारो.६३६-६४०) योगशास्त्रादौ (यो.शा. १/२६-३२) प्रसिद्धा महाव्रतगोचराः पञ्चविंशतिः भावनाः, एवं → तवेण सत्तेण सुत्तेण एगत्तेण बलेण य - (बृ.क.भा.१३२८) इति बृहत्कल्पभाष्यदर्शिताः तपःसत्त्वादिभावना अपि यथागमं यथाधिकारञ्चाऽत्र योज्याः भावनायोगविशारदैः । __ यद्वा → धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ । तं जहा- (१) एगाणुप्पेहा, (२) अणिच्चाणुप्पेहा, (३) असरणाणुप्पेहा, (४) संसाराणुप्पेहा । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पन्नत्ताओ । तं जहा- (१) अणंतवत्तियाणुप्पेहा, (२) विप्परिणामाणुप्पेहा, (३) असुभाणुप्पेहा, (४) अवायाणुप्पेहा - (स्था.४/१/२४७ + भग.श.२५/७ + औपपा.सू.४३) इति स्थानाङ्गसूत्रे, भगवतीसूत्रे औपपातिकसूत्रे च या धर्मध्यानाद्यनुप्रेक्षा दर्शिताः तासामत्र भावनारूपेण यथागमं योजना कार्या । યોગસ્વરૂપ બને છે. અભ્યાસ પણ પ્રતિદિન થવો જોઈએ. આવું બને તો અધ્યાત્મ ભાવનાયોગરૂપે પરિણમે. ગતાનુગતિક અભ્યાસથી કે પડતા પરિણામે અધ્યાત્મનું પરિશીલન કરવાથી કે જચે તો ક્યારેક અભ્યાસ કરે અને ક્યારેક ન કરે તો અધ્યાત્મઅભ્યાસ ભાવનાયોગમાં પરિણમન પામી ન શકે.(૧૮૯). જ ભાવનાના પાંચ પ્રક્ષર છે ગાથાર્થ :- જ્ઞાન, દર્શન, ચારિત્ર, તપ અને વૈરાગ્ય- આ ભેદથી ભાવના પાંચ પ્રકારે માન્ય छे. ते दृढ सं२७।२र्नु ॥२९॥ . (१८/१०) ટીકાર્થ - ભાવ્યમાન = ભાવનાવિષયભૂત જ્ઞાનાદિના પાંચ પ્રકાર હોવાથી ભાવનાના પાંચ પ્રકાર વિશેષાવશ્યકભાષ્ય વગેરેમાં પ્રસિદ્ધ છે. આમ ભાવના પંચવિધરૂપે માન્ય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378