Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 339
________________ १२३२ • अध्यात्मघटकप्रयोजनविमर्शः . द्वात्रिंशिका-१८/९ वीर्योत्कर्षः, शीलं = चित्तसमाधिः, ज्ञानं च वस्त्ववबोधरूपं शाश्वतं = अप्रतिघं, तथा इति वक्तव्याऽन्तरसमुच्चये, अनुभवसंसिद्धं = स्वसंवेदनप्रत्यक्षं अमृतं = पीयूषं हि = स्फुटं अद एव = अध्यात्म एव नु, अतिदारुणमोहविषविकारनिराकारकत्वादस्येति ।।८।। अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः। निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ।।९।। ____ अभ्यास इति । (प्रत्यहं = प्रतिदिवस) वृद्धिमान् = उत्कर्षमनुभवन् बुद्धिसङ्गतो = ज्ञानाऽनुगतः अस्य = अध्यात्मस्य अभ्यासः = अनुवर्तनं भावना उच्यते । + आचा. १।२।२) इत्येवं पापनिरुक्तिः उत्तराध्ययनचूर्णी आचाराङ्गवृत्तौ च दर्शिता । प्रकृते चरमावतकाललभ्यस्याऽध्यात्मघटकस्याऽपुनर्बन्धकाद्यवस्थागतौचित्यापेक्षाधिकबलवतोऽध्यात्मघटकस्य चारित्रकालीनौचित्यस्य ज्ञानावरणादिक्लिष्टकर्मक्षयप्रयोजकत्वम् । अणुव्रत-महाव्रतान्वितत्वस्य वीर्योत्कर्षप्रयोजकत्वम् । मैत्र्यादिभावनानां चित्तसमाधिलक्षणशीलप्रयोजकत्वम् । जिनवचनानुसारितत्त्वचिन्तनस्याऽप्रतिपातिज्ञानप्रयोजकत्वमिति भेदनयार्पणया ज्ञेयम् । अभेदनयार्पणया त्वखण्डस्यैवास्याऽध्यात्मस्य पापक्षय-सत्त्वादिहेतुताऽवसेया । अन्यथा वा सुधियाऽत्र हेतु-हेतुमद्भावो योज्यः । कपिल-देवहूतिसंवादे → यदैवाऽध्यात्मरतः कालेन बहुजन्मना। सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः।। - (क.दे.सं.३/२७) इत्येवं वैराग्यमध्यात्मफलतयोपदर्शितमिह यथातन्त्रमनुसन्धेयम् । यच्च कठोपनिषदि → अध्यात्मयोगाऽधिगमेन देवं मत्वा धीरो हर्ष-शोकौ जहाति — (कठो.२/१२) इत्येवमध्यात्मफलमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रम् ।।१८/८।। अवसरसङ्गतिप्राप्तां भावनामाह- ‘अभ्यास' इति । ज्ञानाऽनुगतः = आत्मज्ञानसमाध्याद्यनुविद्धः प्रतिदिवसं उत्कर्ष = वर्धमानतां अनुभवन् अध्यात्मस्य अनुवर्तनं = पुनः पुनः आवर्तो भावना उच्यते । तदुक्तं योगबिन्दौ → अभ्यासोऽस्यैव विज्ञेयः प्रत्यहं वृद्धिसङ्गतः । मनःसमाधिसंयुक्तः पौनःपुन्येन भावना ।। - (यो.बि.३६०) इति । इदमेवोपजीव्य योगविंशिकावृत्तौ प्रकृतग्रन्थकृता → भावना = अध्यात्मस्यैव प्रतिदिनं प्रवर्धमानश्चित्तवृत्तिनिरोधयुक्तोऽभ्यासः - (यो.विं.वृ.३-पृ.५) इत्युक्तम्। तदुक्तं हरिभद्रसूरिभिरपि आवश्यकवृत्ती → भाव्यते इति भावना ध्यानाऽभ्यासक्रियेत्यर्थः - (आ.वृ.भाग-२/पृ.६२) इति । श्रीहेमचन्द्रसूरिभिस्तु મૂળ ગાથામાં તથા” શબ્દ છે તે કહેવા લાયક બીજી વસ્તુનો સંગ્રહ કરવા માટે છે. તે કહેવા યોગ્ય વાત એ છે કે આ અધ્યાત્મ એ જ સ્વાનુભવથી પ્રત્યક્ષસિદ્ધ થયેલું સ્પષ્ટ અમૃત છે. કારણ કે અતિભયંકર मेवा भो ३५ी. २नी वितिनी ते नाश ४२२ छे. (१८/८) અધ્યાત્મના સ્વરૂપ, ફળની વિચારણા બાદ અવસરોચિત ક્રમપ્રાપ્ત ભાવનાના સ્વરૂપ અને ફળ ગ્રંથકારશ્રી બતાવે છે. હ ભાવનાનું સ્વરૂપ અને ફળ છે ગાથાર્થ :- અધ્યાત્મનો બુદ્ધિસંગત એવો વૃદ્ધિમાનું અભ્યાસ ભાવના કહેવાય છે. તેનું ફળ અશુભ અભ્યાસથી નિવૃત્તિ અને ભાવવૃદ્ધિ છે. (૧૮૯) ટીકાર્ય :- રોજ પ્રકર્ષને પામે તે પ્રકારનો તથા જ્ઞાનસંગત એવો અધ્યાત્મવિષયક અભ્યાસ-પરિશીલન એ જ ભાવના કહેવાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378