Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२१०
• उपदेशनिष्ठव्यञ्जकताविमर्शः . द्वात्रिंशिका-१७/२९ देशोऽपि गुणप्रारम्भाय तत्पातप्रतिबन्धाय वोपयुज्यते, न तु स्थितपरिणामं प्रतीति ।
तदुक्तं उपदेशपदे- “उवएसो वि हु सफलो गुणठाणारंभगाण जीवाण । परिवडमाणाण तहा पायं न उ तट्ठिआणं पि ।।" (उप.पद.४९९) व्यञ्जकताऽपि अस्य = उपदेशस्य । तबलेन = परिणामबलेन उपनतिक्रिया = सन्निधानलक्षणा (= तबलोपनतिक्रिया) । पद. ५००) उपदेशोऽपि = तीर्थकर-गणधरादिप्रज्ञापनाऽपि गुणप्रारम्भाय = अनवाप्तगुणस्थानकप्राप्तये प्राप्तगुणस्थानपरिणामप्राचुर्याय तत्पातप्रतिबन्धाय = अवाप्तगुणस्थानपरिणामपतनप्रतिबन्धाय वोपयुज्यते, न तु स्थितपरिणामं = जिनकल्पिकादिकमिव प्रारब्धस्वगुणस्थानसमुचितक्रियाभावोभयं प्रति ।
उपदेशपदसंवादमाह- “उवएसो वि' इत्यादि । साम्प्रतं उपदेशपदमुद्रितप्रतौ ‘सफलो एसुवएसो गुणठाणाऽऽरंभगाण भव्वाणं' (उप.प.४९९) इत्येवं पूर्वार्धमुपलभ्यते इत्यवधेयम् । श्रीमुनिचन्द्रसूरिकृता तद्वृत्तिस्त्वेवं → सफलः = सप्रयोजन एष सक्लेशपरिहाररूप उपदेशो गुणस्थानाऽऽरम्भकाणां = सम्यग्दृष्ट्यादिगुणस्थानकस्यात्मनि प्रवर्तकानां भव्यानां विवक्षितगुणस्थानकं प्रति सम्पन्नाऽविकलयोग्यभावानां परिपततां जीवानां = तथाविधक्लिष्टकर्मोदयाद् विवक्षितं गुणस्थानकसौधशिखरादधःप्रारब्धपातानां तथा इति समुच्चये प्रायः = बाहुल्येन । एवमुक्तं भवति ये निकाचितकर्मोदयात् प्रारब्धपातास्तेषामफल एव 6 (उ.प.वृ.४९९) इति । अत्र च → अर्थे ह्यशक्ये खलु यः प्रयासं करोत्यसौ यास्यति हास्यभावम् + (वै.क.ल.४/४८) इति वैराग्यकल्पलतावचनमनुसन्धेयम् । → ये तु सोपक्रमकर्माणस्तेषु स्यादेव फलवानुपदेश इति । व्यवच्छेद्यमाह- न तु = न पुनः तत्स्थितानामपि = सर्वात्मना समधिष्ठितगुणस्थानकानामपीति 6 (उप.पद. ४९९ वृत्ति-पृष्ठ-२५१) । ____ उपदेशरहस्येऽपि → एसुवएसो फलवं गुणठाणारंभतिव्वयाजोगे। न ठिएसु जहा दंडो चक्कम्मि सयं भमंतंमि ।। 6 (उप.रह. ७८) इत्युक्तम् । उपदेशस्य च स्वजन्यद्रव्याऽऽज्ञा-क्रियापूर्वकगुणस्थानारम्भस्थैर्यान्यतरव्यापारसम्बन्धेनैव सम्यग्दर्शनादिहेतुत्वादिति तवृत्तौ (उप.रह.७८ वृत्ति-पृष्ठ-१५६) ।
उपदेशस्य व्यञ्जकताऽपि = प्रशस्तादिपरिणामाऽभिव्यञ्जकतापि परिणामबलेन = अनभिव्यक्तसमुत्पत्तुकामपरिणामसामर्थ्येन सन्निधानलक्षणा = उपधानात्मिका । सम्यग्दृष्ट्यादावन्तःस्थित एवाभिव्यक्तुकामः प्रशस्त-शुद्धाऽन्यतरज्ञानादिपरिणामः सानुबन्धमिथ्यात्वमोहादिक्षयोपशमात् स्वाभिव्यक्तिकृते सदुपदेशादिकमुपनयतीति भावः । अभिव्यक्तिकाम आसन्नमुक्तिगामिजीवपरिणामो बलादेवोपदेशमाढौकयति स्वप्राकट्यार्थमिति यावत्तात्पर्यम् । इत्थमेवाऽश्वावबोधार्थं रात्रावपि श्रीमुनिसुव्रतस्वामिविहाराद्युपपत्तेः । इदञ्चोपदेशनियताऽभिव्यक्तिकपरिणाममाश्रित्य विज्ञेयम् । ततश्चोपदेशमृतेऽपि स्वयमेवाभिव्यक्तिकामस्योपदेशाऽनियतस्य सम्यग्दृष्ट्यादिपरिणामस्याऽभिव्यक्तावपि न काचित्क्षतिः । न च ज्ञानादिपरिणामस्येच्छाઉપયોગી બને છે. પરંતુ સ્થિર પરિણામવાળા જીવો માટે ઉપદેશની આવશ્યકતા રહેતી નથી. તેથી તો ઉપદેશપદમાં જણાવેલ છે કે “ઉપદેશ પણ નવા ઉપલા ગુણસ્થાનક ઉપર ચઢતા જીવોને તથા નીચે પડતા જીવોને માટે સફળ થાય છે. પરંતુ તે જ પરિણામમાં રહેલા જીવોને માટે પ્રાયઃ ઉપદેશ સફળ થતો નથી.” ૯ તથા ઉપદેશમાં રહેલી પ્રશસ્તપરિણામની વ્યંજકતા પણ પરિણામના બળથી
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378