Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
१२०८
• कुशलानां तत्त्वोपलम्भे निमित्तमात्रमुपदेशः • द्वात्रिंशिका-१७/२८ उपदेशस्त्वनेकान्तो हेतुरत्रोपयुज्यते । गुणमारभमाणस्य पततो वा स्थितस्य न ॥२८॥
उपदेशस्त्विति । उपदेशस्त्वत्र = भिन्नग्रन्थेरुचितप्रवृत्तौ (हेतुः) 'अनेकान्तो जलोत्पत्तौ भूमिसरसभावनिबन्धनायां पवन-खननादिरिवाऽनियतहेतुभावः सन् उपयुज्यते । अनियतत्वेऽपि विशेषे नैयत्यमभिधित्सुराह गुणं = उपरितनगुणस्थानं आरभमाणस्य पततो वा उपरितनगुणस्थानादधस्तनमाग___भिन्नग्रन्थेः उचितप्रवृत्ती स्वतः शुभपरिणामनिबन्धनायां उपदेशः = गुरु-शास्त्राद्युपदेशः अनियतहेतुभावः सन्नुपयुज्यते । जलोत्पत्तौ इति । अयमत्राशयः खननादिकं विनैव पद्मसरोवरोष्णजलकुण्डगङ्गोत्र्यादौ भूमिगतपवनेन जलमुच्छलति अन्यत्र च भूमिखननादिना जलमुत्पद्यते पवनं विनैव । अतः पवन-खननादिः नाऽवश्यक्लृप्तहेतुरूपेण जलोद्गमं प्रत्युपयुज्यते । वस्तुतस्तु नैव जलोत्पत्तिः पवन-खननादिनिबन्धना किन्तु भूमिसरसभावनिबन्धना । पवनादयस्तु भूमौ सत एव जलस्याभिव्यक्तिहेतवः । एवं समुचितप्रवृत्त्यादिलक्षणः शुभभावोऽन्तरङ्गशुद्धपुरुषकारबलनिबन्धन एव, उपदेशस्त्वन्तःसत एव शुभभावस्याभिव्यक्तिहेतुः। अनैकान्तिकभावश्च पवन-खननादेरुपदेशस्य च, क्वचिद् भावेऽप्यभावात् क्वचिच्चाभावेऽपि भावाज्जल-शुभभावयोरिति । इदमेवाऽभिप्रेत्योक्तं योगबिन्दौ → निमित्तमुपदेशस्तु पवनादिसमो मतः । अनैकान्तिकभावेन सतामत्रैव वस्तुनि ।। 6 (यो.बि.३४६) इति । यथोक्तं श्रीहरिभद्रसूरिभिः एव समरादित्यकथायां → निमित्तमेत्तं चेव देसणा तत्तोवलम्भे कुसलाणं - (स.क. भव. ८/पृ. ८४१) इति । सम्यग्दर्शनप्राप्तावपि नोपदेशस्याऽवश्यम्भावः किम्पुनः तदुत्तरमुचितप्रवृत्तौ? एतेन → उवएसमंतरेणावि पडिमाइ दट्टणं सामाइयाऽऽवरणिज्जाण कम्माण खओवसमेणं सामाइयलद्धी समुप्पज्जइ - (आ.नि.१०२७ भाष्यगा.१७५-चू.पृ.४६८) इति आवश्यकनियुक्तिचूर्णिवचनं व्याख्यातम् ।
__उपदेशस्य भिन्नग्रन्थेरुचितप्रवृत्तौ अनियतत्वेऽपि = अवश्यम्भावनियमविरहेऽपि विशेषे = विशेषावस्थायां गुरु-शास्त्र-कल्याणमित्राद्युपदेशस्य नैयत्यं = आवश्यकत्वं अभिधित्सुराह- उपरितनगुणस्थानं = अग्रेतनगुणस्थानं आरभमाणस्य यद् वा उपरितनगुणस्थानादधस्तनं स्थानं आगच्छतः उपदेशोऽपि अत्रोपજણાવે છે કે
સમક્તિીને ઉપદેશની જરૂરત ક્યારે ? જ ગાથાર્થ :- સમકિતીને ઉચિત પ્રવૃત્તિમાં ઉપદેશ તો અનિયત હેતુરૂપે ઉપયોગી બને છે. નવા ગુણસ્થાનકને પામતા કે નીચે પડતા સમકિતીને ઉપદેશ ઉપયોગી છે. સ્થિરભાવવાળા સમકિતીને ઉપદેશની ४३२ नथी. (१७/२८)
ટીકાર્ય :- જેમ જમીનમાંથી પાણીની ઉત્પત્તિનું મુખ્ય કારણ ભૂમિની રસાળતા છે. તેથી પવનખનન વગેરે અનિયતરૂપ હેતુ તરીકે ઉપયોગી થાય છે. તેમ સમકિતીની ઉચિત પ્રવૃત્તિમાં ધર્મોપદેશ અનિયત કારણરૂપે ઉપયોગી થાય છે.
આમ ઉપદેશનું અનૈયત્ય (=અનિયતપણું) હોવા છતાં પણ અવસ્થા વિશેષમાં ઉપદેશની આવશ્યકતાને જણાવવાની ઇચ્છાવાળા ગ્રંથકારશ્રી કહે છે કે ઉપરના ગુણસ્થાનક ઉપર ચઢતા સમકિતીને અથવા ઉપરના ગુણસ્થાનકેથી નીચે પડતા સમકિતીને ધર્મોપદેશની આવશ્યકતા છે. પરંતુ એક સરખા પરિણામમાં
१. हस्तादर्श 'अनैका...' इति पाठः । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378