Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• प्रज्ञापनाप्रियत्वोपवर्णनम् •
१२१५ तत्र रतिः = श्रवणतदर्थपालनाऽऽसक्तिः (=प्राज्ञप्रज्ञापनारतिः) (४) गुणरागश्च = गुणबहुमानः।
(५) शक्याऽऽरम्भः स्वकृतिसाध्यधर्मादिप्रवृत्तिः अपि चाऽस्य हि = चारित्रस्य हि लिङ्गानि लक्षणानि प्रवदन्ति पूर्वसूरयः ।।३१।।। तदर्थपालनाऽऽसक्तिः, पूर्वोक्तलिङ्गद्वयलक्षणात् कारणात्। तदुक्तं पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च → अत एव कारणद्वयात् प्रज्ञापनीयः, कथञ्चिदनाभोगादन्यथाप्रवृत्तावपि तथाविधगीतार्थेन सम्बोधयितुं शक्यः, तथाविधकर्मक्षयोपशमाद् अविद्यमानाऽसदभिनिवेशः प्राप्तव्यमहानिधि-तद्ग्रहणान्यथाप्रवृत्त-सुकरसम्बोधननरवत् + (पञ्चा.३/६ वृत्ति/उप.पद.१९९ वृत्ति) इति । योगशतकवृत्तौ अपि → प्रज्ञापनीयः = अत एव कारणद्वयात् सन्निध्यवाप्तिप्रवृत्ततद्भोक्तृ-तद्गतविधिश्राद्धाऽऽप्तप्रज्ञापकवत्, सच्छ्रद्धाफलोपदर्शनार्थमेतद् + (यो.श.१५ वृत्ति) इत्युक्तम् । तदुक्तं धर्मरत्नप्रकरणेऽपि → एसा पवरा सद्धा अणुबद्धा होइ भावसाहुस्स । एईए सब्भावे पन्नवणिज्जो हवइ एसो ।। - (ध.रत्न.१०५) इति । ___ ऋजुभावश्चात्र प्रधानहेतुः। तदुक्तं धर्मरत्नप्रकरणे → पण्णवणिज्जत्तमुजुभावा 6(ध.रत्न.७८) इति । → प्रज्ञापनाप्रियः = गुणवत्पुरुषप्रज्ञापनाप्रीतिमान्, सन्निधिलाभयोग्यजीव इव तद्गतक्रियां प्रति — (यो.बि.३५३ वृत्ति) इति योगबिन्दुवृत्तिकृत् । → प्रज्ञापनीयः = कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यत्वात् तथाविधकर्मक्षयोपशमादविद्यमानाऽसदभिनिवेशः, प्राप्तव्यमहानिधिग्रहणाऽन्यथाप्रवृत्तसुकरसम्बोधननरवदिति (उप.रह.१० वृ.) उपदेशरहस्यवृत्ती व्यक्तमुक्तम् ।
लिङ्गं मार्गानुसार्येष श्राद्धः प्रज्ञापनाप्रियः । गुणरागी महासत्त्वः सच्छक्त्यारम्भसङ्गतः ।। (यो.बि.३५३) इति योगबिन्दुग्रन्थमनुसृत्य चतुर्थं चारित्रलिङ्गमाह-गुणरागः = गुणबहुमानः, विशुद्धाऽऽशयत्वादिति (यो.श.१५ वृत्ति) योगशतकवृत्तिकृत् । तदुक्तं पञ्चाशकवृत्तौ उपदेशपदवृत्तौ च → विशुद्धाऽध्यवसायतया स्वगतेषु वा परगतेषु वा गुणेषु ज्ञानादिषु रागः = प्रमोदो यस्याऽस्त्यसौ गुणरागी = निर्मत्सर इत्यर्थः - (पञ्चा.३/६ वृत्ति/उप.पद.१९९ वृत्ति) । → गुणरागी = मत्सरविरोधिपरिणामवानित्यर्थः । इदं हि गुणलाभाऽनुबन्धेऽवन्ध्यं बीजं, प्रतिबन्धकस्य मत्सरस्याऽपगमादिति - (उप.रह. गा.१० वृ.) उपदेशरहस्यवृत्तौ ।
अत एव गुणमालिन्यजनकदोषपरिहारोऽप्युपपद्यतेऽस्य । तदुक्तं धर्मरत्नप्रकरणे → जायइ गुणेसु रागो सुद्धचरित्तस्स नियमओ पवरो । परिहरइ तओ दोसे गुणगणमालिन्नसंजणए ।। गुणलेसं पि पसंसइ गुरुगुणबुद्धीइ परगयं एसो । दोसलवेण वि निययं गुणनिवहं निग्गुणं गणइ।।
6 (ध.रत्न.१२०-१२१) इति ।
चारित्रस्य पञ्चमं लिङ्गं व्याख्यानयति- शक्याऽऽरम्भः = सुन्दरपरिणामेन स्वकृतिसाध्यधर्मादिप्रवृत्तिः = निजयत्नसाध्य-गुरु-ग्लान-बालादिविषयवैयावृत्त्याद्यनुष्ठानारम्भः । कुतः इति चेत् ? उच्यते वन्ध्याऽऽरम्भઆસક્તિ હોવી તે ચારિત્રનું ત્રીજું લક્ષણ છે. ચોથું લક્ષણ છે ગુણો પ્રત્યેનો બહુમાન ભાવ.
તથા પોતાના પ્રયત્નથી સાધી શકાય તેવી ધર્મ વગેરે સંબંધી પ્રવૃત્તિ કરવી તે ચારિત્રનું પાંચમું दक्ष छे. माम पूर्वाधार्या 38 छ. (१७/३१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378