Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 323
________________ १२१८ • कर्मबलश्रवणेऽपि क्लैब्यपरिहारोपदेशः • द्वात्रिंशिका-१७/३२ ___योगेति । अत्र देशसर्वविभेदेन चित्रे = नानारूपे चारित्रे सर्वज्ञभाषिते = तीर्थकराभिहिते योगस्य प्रागुक्तलक्षणस्य प्रवृत्तिः (= योगप्रवृत्तिः) स्यात्, परमेण = उत्कृष्टेन आनन्देन सङ्गता व्याप्ता (=परमानन्दसङ्गता)।।३२।। ।। इति दैव-पुरुषकारद्वात्रिंशिका ।।१७।। निरुक्तलिङ्गचारित्रे सति योगप्रवृत्तिमाह- 'योगे'ति । देश-सर्वविभेदेन = देश-सर्वविशेषेण नानारूपे तीर्थकराऽभिहिते = तीर्थकर-गणधरादिप्रतिपादिते चारित्रे सति प्रागुक्तलक्षणस्य = योगलक्षणद्वात्रिंशिकायां (द्वा.द्वा.१०/१ पृ.६८३) मोक्षयोजकमुख्यहेतुभूताऽऽत्मव्यापारलक्षणत्वेनोक्तस्य योगस्य वक्ष्यमाणाध्यात्मादिप्रकारस्य प्रवृत्तिः = स्वरूपोपलब्धिः शरीरेन्द्रियमनोवेदनीयसुखापेक्षया उत्कृष्टेनाऽऽनन्देन जात्यसुखेन व्याप्ता स्यात् । तदुक्तं योगबिन्दौ → देशादिभेदतश्चित्रमिदं चोक्तं महात्मभिः । अत्र पूर्वोदितो योगोऽध्यात्मादिः सम्प्रवर्तते ।। - (यो.बि.३५७) इति । इदञ्चाऽत्राऽवधेयम्- सत्त्वहीनतया प्रमादमवलम्ब्य नन्दिषेणाधुदाहरणानि पुरस्कृत्य 'मां प्राक्तनं दुर्दैवं बलात्कारेणऽसत्कार्येषु संप्रेरयति, पूर्वाभ्यस्ता मलिना चित्तवासना मां बाधते, किमहं करवाणि ?' इत्यालोच्य नैवाऽऽत्मा दैवाधीनः कार्यः। तदुक्तं महाभारते → अकृत्वा मानुषं कर्म यो दैवमनुवर्तते । वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ।। (म.भा.अनुशा.६/२०) इति । परं सर्वत्र यथाशास्त्रं विवेकगर्भः पुरुषकारः श्रयितव्यः सोत्साहतया । अत्र चार्थे → परं पौरुषमाश्रित्य दन्तैर्दन्तान् विचूर्णयन् । शुभेनाऽशुभमुद्युक्तं प्राक्तनं पौरुषं जयेत् ।। प्राक्तनः पुरुषार्थोऽसौ मां नियोजयतीति धीः । बलादधस्पदीकार्या प्रत्यक्षादधिका न सा ।। तावत् तावत् प्रयत्नेन यतितव्यं सुपौरुषम् । प्राक्तनं पौरुषं यावदशुभं शाम्यति स्वयम् ।। दोषः शाम्यत्यसन्देहं प्राक्तनोऽद्यतनैर्गुणैः । दृष्टान्तोऽत्र ह्यस्तनस्य दोषस्याऽद्यगुणैः क्षयः ।। असद् दैवमधः कृत्वा नित्यमुद्रिक्तया धिया । संसारोत्तरणं भूत्यै यतेताऽऽधातुमात्मनि ।। न गन्तव्यमनुद्योगैः साम्यं पुरुषगर्दभैः । उद्योगस्तु यथाशास्त्रं लोकद्वितयसिद्धये ।। संसारकुहरादस्मानिर्गन्तव्यं स्वयं बलात् । पौरुषं यत्नमाश्रित्य हरिणेवाऽरिपञ्जरात् ।। प्रत्यहं प्रत्यवेक्षेत देहं नश्वरमात्मनः । संत्यजेत् पशुभिस्तुल्यं श्रयेत् पुरुषोचितम् ।। - (यो.वा.मुमुक्षुप्रकरण-५/९-१६) इति योगवाशिष्ठकारिकासन्दर्भो भावनीय इति शम् ।।१७/३२ ।। स्वभूमिकोचितत्वेन सदाशयाद्धि सर्वदा । दैवं पुरुषकारं वा प्राधान्यमर्पयन् श्रयेत् ।।१।। सत्कर्तृत्वमसङ्गत्वं विवेकज्ञानतः श्रयन् । जिनाऽऽज्ञामनुसृत्यैवं मोक्षञ्च लभते क्रमात् ।।२।। इति मुनियशोविजयविरचितायां नयलतायां दैव-पुरुषकारद्वात्रिंशिकाविवरणम् ।।१७।। ટીકાર્ય - દેશવિરતિ અને સર્વવિરતિ – આમ બે ભેદથી વિવિધ પ્રકારનું ચારિત્ર સર્વજ્ઞ તીર્થંકર ભગવંતોએ બતાવેલ છે. પૂર્વે ૧૦મી બત્રીસીમાં જેનું લક્ષણ બતાવેલ છે તે યોગની પ્રવૃત્તિ ચારિત્રને વિશે ઉત્કૃષ્ટ આનંદથી વ્યાપ્ત થવી જોઈએ. (૧૭૩૨) વિશેષાર્થ :- ૩૧મી ગાથામાં દેશવિરતિ ચારિત્ર અને સર્વવિરતિ ચારિત્રના લક્ષણ બતાવેલા છે. તે ચારિત્રમાં યોગની પ્રવૃત્તિ પરમાનંદથી ફેલાયેલી હોવી જોઈએ તો ભાગ્ય અને પુરુષાર્થ બન્ને ભેગા घन पोतान कार्य साधी २ (0.0/201.. PONPrivate &Personal use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378