Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• गुणस्थानकपरिणामे सति विपरीतवृत्त्ययोगः •
१२०७ औचित्येन = धर्मार्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन प्रवृत्तिः स्यात् ऊर्ध्वं = ग्रन्थिभेदोत्तरं तस्यैव बलीयसो 'यत्नस्यैव चोदनात् = प्रेरणात् ।।२७।। ____ननु यद्येवं ग्रन्थिभेदादूचं स्वपरिणामादेवोचितप्रवृत्तिसिद्धिस्तदोपदेशवैयर्थ्यं स्यादित्यत आहप्राधान्यपरम् । एतेन → योगप्राप्त्यै महाबाहो ! हेतुः कर्मैव मे मतम् । सिद्धियोगस्य संसिद्ध्यै हेतू शम-दमौ मतौ ।। - (ग.गी.५/२) इति गणेशगीतावचनमपि व्याख्यातम्, चरमयथाप्रवृत्तकरणलक्षणयोगप्राप्तये स्वभूमिकोचितसदाशयप्रयुक्त-विधिविशुद्ध-सदनुष्ठानसन्तानस्य प्राक्कृतकर्मणो वा, अपूर्वकरणलक्षणसिद्धियोगसिद्धये च शमादेः कारणत्वप्रतिपादनपरतया तदुपपत्तेः । अन्यथा वा सुधिया तद्व्याख्येयम् ।
भिन्नग्रन्थेस्तु → बलं थामं च पेहाए सद्धामारुग्गमप्पणो । खेत्तं कालं च विन्नाय तहप्पाणं निजुंजए ।। 6 (द.वै.८/३५) इति दशवैकालिकसूत्रोक्तितात्पर्यपरिणमनतो धर्माऽर्थादिगोचरन्याय्यप्रवृत्तिप्रधानत्वेन न्याय्या प्रवृत्तिः निवृत्तिश्च स्यात्, न त्वन्याय्या, ग्रन्थिभेदोत्तरं उपदेशं विनाऽपि स्वतः बलीयसः विशुद्धस्य च यत्नस्यैव प्रेरणात् = अन्तःस्फुरणात् । तदुक्तं सम्यग्दृष्टिमुद्दिश्य योगबिन्दौ →
अस्यौचित्याऽनुसारित्वं प्रवृत्तिर्नाऽसती भवेत् । सत्प्रवृत्तिश्च नियमाद् ध्रुवः कर्मक्षयो यतः ।। औचित्यं भावतो यत्र तत्राऽयं सम्प्रवर्तते । उपदेशं विनाऽप्युच्चैरन्तस्तेनैव चोदितः ।।
- (यो.बि.३४०,४४) इति । सम्यग्दर्शनादिपरिणतिविशेष सत्युपदेशमृतेऽपि नैव स्वयमेव स्वगतगुणस्थानपरिणतिव्याघाते स्वरसतः जीवो व्याप्रियते, प्रस्तुतगुणस्थानकात्यन्ताराधनावशेन तद्बाधकसङ्क्लेशानां हानिभावादिति । तदुक्तं उपदेशपदे → गुंणठाणगपरिणामे संते उवएसमन्तरेणावि। नो तव्वाघायपरो नियमेणं होति जीवो ।। 6 (उप.पद.५०३) इति । ततश्च सम्यग्दृष्टेः स्वतः पुरुषार्थप्रेरणादुचितप्रवृत्तेर्जायमानस्य वैराग्यादिभावस्यैव शुभभावान्तरप्रवर्तकत्वं विज्ञेयम् । तदुक्तं योगबिन्दौ → अतस्तु भावो भावस्य तत्त्वतः सम्प्रवर्तकः । शिराकूपे पय इव पयोवृद्धेर्नियोगतः।। - (यो.बि.३४५) इति प्रागप्युक्तम्(पृ.७२०)। न चैवं क्षायिकसम्यग्दर्शनवतां सत्यक्यादीनां परदारागमनाद्यनुपपत्तिरिति शङ्कनीयम्, यतः निकाचितकर्मपारवश्येनैव कदाचिदेव कुत्रचिदेव केषाञ्चिदेवाविरतसम्यग्दृशामल्पीयस्यन्याय्यप्रवृत्तिस्सम्भवतीति नात्र सा विवक्षिता । परं तादृशप्रवृत्तावपि 'आत्मन्येव तात्त्विकमनौपाधिकं सुखमस्ती'ति तात्त्विकाऽऽस्तिक्यादिलक्षणपञ्चकगोचरसत्प्रणिधानादिभावस्तु नैव प्रतिपतति । इदमेवाभिप्रेत्य श्रावकप्रज्ञप्त्यादौ → एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ।। 6 (श्रा.प्र.५४) इत्युक्तमिति प्रागुक्तं (द्वा.द्वा.१५/११ पृ.१०२१) प्रकृते स्मर्तव्यम् । यथा चैतत् तथा सदृष्टिद्वात्रिंशिकायां (द्वा.२४/११-१५ भाग-६, पृ.१६४७-१६५९) स्पष्टीभविष्यति ।।१७/२७ ।। અર્થ વગેરે સંબંધી ન્યાયસંગત પ્રવૃત્તિ પ્રધાન બને તે રીતે જ જીવ વર્તે છે. કારણ કે ગ્રંથિભેદ પછી पणवान प्रयत्न ४२वानी ४ अंतरम स्वत: २९॥ यती डोय छे. (१७/२७)
“જો આ રીતે ગ્રંથિભેદ પછી પોતાના પરિણામથી ઉચિત પ્રવૃત્તિ કરે એવું સિદ્ધ થતું હોય તો સમકિત મળી જાય પછી ઉપદેશ સાંભળવાનું વ્યર્થ થઈ જશે.”- આવી શંકાનું નિરાકરણ કરવા ગ્રંથકારશ્રી १. हस्तादर्श 'यत्नस्येव...' इत्यशुद्धः पाठः । २. हस्तादर्श 'वैयर्थ्यं स्यादित्यत आह' इति पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378